गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 256, कुल 332 में से
संदर्भ में पढ़ेंइति । अनृचो वेदशून्यः । प्रग एव प्रातरेव । “सायं साये प्रगे प्रातरि”- त्यमरः । एनं-माणवकं, भोजयन्ति-इत्युक्त्याऽत्र शङ्का न कार्येत्युपदिशति । भोजनञ्चात्र गोदुग्धादेरेव । तथा च श्रुतिः “पयोव्रतो ब्राह्मणो भवति यवागू- व्रतो राजन्य आमिक्षाव्रतोवैश्य.” इति । व्रतमाहारः । तथा च गृह्यान्तरम्- “पयोयवाग्वामिक्षाहाराः क्रमशोद्विजातीनाम्” इति । यवागूक्ता ( १-७-२०) आमिक्षा शृतोष्णे क्षीरे दधियोगेन कठिनं द्रव्यम् । तथा च श्रुतिः “तप्ते पय- सि दध्यानयति सा वैश्वदेव्यामिक्षा भवति वाजिभ्योवाजिनम्” इति । अभि- धानञ्च “आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः” इति ( अमरः ) वाजिनमतिरिच्यमानं तत्पय उच्यते ॥ कुशलीकारयन्ति मुण्डयन्ति “क्षौरन्तु भद्राकरणम्मुण्डन वपनन्त्रिषु” इत्यमरः । भद्राकरणं कुशलीकरणमित्यनर्था- न्तरम् । अत्र शिखा न धार्या- “एते लूनशिखास्तस्थु कोमलैर्दन्तकुड्मलैः । कुशकाशा विराजन्ते वटवः सामगा इव ॥” इति विष्णुपुराणपर्यालोचनात् । समावर्त्तने “शिखाववर्ज्जमि”ति विशेषोप- देशाच्च । आप्लावयन्ति-स्नापयन्ति । आप्लावनञ्चेदं घटत्रयाम्बुना । तथा च गृह्यासङ्ग्रहः “स्नानञ्चतुर्भिः कलशैः प्लावनन्तु त्रिभिर्घटैरि”ति । अलङ्कु- र्वन्तिकेयूरकटककुण्डलादिभिर्यथालाभम् । अहतेनेति । अत्र गृह्यासङ्ग्रहः- “सकृद्धौतं नवं श्वेतं सदशं यन्न धारितम् । अहन्तन्तद्विजानीयाद्दैवे पैत्रे च पावनम्” ॥ इति । वाससेत्येकवचनादिदमधरीयमिति द्रष्टव्यम् । उत्तरीयन्तु उपरि- ष्टाद्यदजिनं सूत्रयिष्यति तदेव स्यात् । सर्वत्र बहुवचननिर्देशात्कर्त्तुरनियमः । अत्र भाष्यकृतः-“अग्निहोत्रञ्जुहोति यवागूंम्पचती”ति वत् अत्राप्यार्थक्र- मेण शाब्दक्रमोल्लङ्घनमिति प्रथमं वपनमनन्तरं स्नानमथभोजनमिति क्रमः । ज्योतिषे भोजनानन्तरं वपननिषेधात् । तथाहि- “न स्नानमात्रगमनोन्मुखभूषितानामभ्यक्तभुक्तरणकालविवासनानाम् । सन्ध्या निशाकुजदिने च तिथौ च रिक्ते क्षौरं हितं न नवमेऽह्नि न चापि षष्ठ्या- म्” इत्याहुस्तन्न-अदृष्टार्थक्रमस्य ज्योतिश्शास्त्रविरोधेनानपवादात् । दृष्टान्ते त्वन्यथाऽनुपपत्त्या तथा कल्प्यते । प्रकृते निषेधस्यान्यक्षौरविषयत्वेनाप्युपपत्ते- रन्यथा रोहिण्यादौ नववस्त्रधारणनिषेधात्तत्र विवाहविधेरानर्थक्यं स्यान्न स्या- च्च रविवारादौ उपनयनन्तत्र क्षौरनिषेधात् । अत एव “ब्राह्मणान् भोजयेत्तं च पर्युप्तशिरसमलङ्कृतमानयन्ती”ति पारस्करेऽपि भोजनानन्तरमेव मुण्डनन्द- र्शितमिति । धीरपद्धतिस्वरसोऽप्येवमेवेति महामहो० मुरारिमिश्राः प्राहुः ॥७॥ २६ गो० गृ०सू०