भारतकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

इति । अनृचो वेदशून्यः । प्रग एव प्रातरेव । “सायं साये प्रगे प्रातरि”- त्यमरः । एनं-माणवकं, भोजयन्ति-इत्युक्त्याऽत्र शङ्का न कार्येत्युपदिशति । भोजनञ्चात्र गोदुग्धादेरेव । तथा च श्रुतिः “पयोव्रतो ब्राह्मणो भवति यवागू- व्रतो राजन्य आमिक्षाव्रतोवैश्य.” इति । व्रतमाहारः । तथा च गृह्यान्तरम्- “पयोयवाग्वामिक्षाहाराः क्रमशोद्विजातीनाम्” इति । यवागूक्ता ( १-७-२०) आमिक्षा शृतोष्णे क्षीरे दधियोगेन कठिनं द्रव्यम् । तथा च श्रुतिः “तप्ते पय- सि दध्यानयति सा वैश्वदेव्यामिक्षा भवति वाजिभ्योवाजिनम्” इति । अभि- धानञ्च “आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः” इति ( अमरः ) वाजिनमतिरिच्यमानं तत्पय उच्यते ॥ कुशलीकारयन्ति मुण्डयन्ति “क्षौरन्तु भद्राकरणम्मुण्डन वपनन्त्रिषु” इत्यमरः । भद्राकरणं कुशलीकरणमित्यनर्था- न्तरम् । अत्र शिखा न धार्या- “एते लूनशिखास्तस्थु कोमलैर्दन्तकुड्मलैः । कुशकाशा विराजन्ते वटवः सामगा इव ॥” इति विष्णुपुराणपर्यालोचनात् । समावर्त्तने “शिखाववर्ज्जमि”ति विशेषोप- देशाच्च । आप्लावयन्ति-स्नापयन्ति । आप्लावनञ्चेदं घटत्रयाम्बुना । तथा च गृह्यासङ्ग्रहः “स्नानञ्चतुर्भिः कलशैः प्लावनन्तु त्रिभिर्घटैरि”ति । अलङ्कु- र्वन्तिकेयूरकटककुण्डलादिभिर्यथालाभम् । अहतेनेति । अत्र गृह्यासङ्ग्रहः- “सकृद्धौतं नवं श्वेतं सदशं यन्न धारितम् । अहन्तन्तद्विजानीयाद्दैवे पैत्रे च पावनम्” ॥ इति । वाससेत्येकवचनादिदमधरीयमिति द्रष्टव्यम् । उत्तरीयन्तु उपरि- ष्टाद्यदजिनं सूत्रयिष्यति तदेव स्यात् । सर्वत्र बहुवचननिर्देशात्कर्त्तुरनियमः । अत्र भाष्यकृतः-“अग्निहोत्रञ्जुहोति यवागूंम्पचती”ति वत् अत्राप्यार्थक्र- मेण शाब्दक्रमोल्लङ्घनमिति प्रथमं वपनमनन्तरं स्नानमथभोजनमिति क्रमः । ज्योतिषे भोजनानन्तरं वपननिषेधात् । तथाहि- “न स्नानमात्रगमनोन्मुखभूषितानामभ्यक्तभुक्तरणकालविवासनानाम् । सन्ध्या निशाकुजदिने च तिथौ च रिक्ते क्षौरं हितं न नवमेऽह्नि न चापि षष्ठ्या- म्” इत्याहुस्तन्न-अदृष्टार्थक्रमस्य ज्योतिश्शास्त्रविरोधेनानपवादात् । दृष्टान्ते त्वन्यथाऽनुपपत्त्या तथा कल्प्यते । प्रकृते निषेधस्यान्यक्षौरविषयत्वेनाप्युपपत्ते- रन्यथा रोहिण्यादौ नववस्त्रधारणनिषेधात्तत्र विवाहविधेरानर्थक्यं स्यान्न स्या- च्च रविवारादौ उपनयनन्तत्र क्षौरनिषेधात् । अत एव “ब्राह्मणान् भोजयेत्तं च पर्युप्तशिरसमलङ्कृतमानयन्ती”ति पारस्करेऽपि भोजनानन्तरमेव मुण्डनन्द- र्शितमिति । धीरपद्धतिस्वरसोऽप्येवमेवेति महामहो० मुरारिमिश्राः प्राहुः ॥७॥ २६ गो० गृ०सू०

: म - रो - मृ - गाः Look at the characters: म (ma) रो (ro) मृ (mṛ) - 'म' with 'ऋ' matra! गाः (gāḥ) - 'ग' with 'आ' matra and visarga! Yes, "मरोमृगाः" (maromṛgāḥ)! Amarakosha says: "रोहिताश्चमरो मृगाः" ! So in L31: "रोहिताश्चमरोमृगाः" इति । Not 'ष्ट्राः'! It is definitely "रोहिताश्चमरोमृगाः" इति ।!

Now check L31 continued: तत्र एणश्चारुनेत्र इत्येवं जातिभेदख्यापकन्तद्व्याख्यानञ्चा- मरविवेके महेश्वरेण कृतम् ॥ Wait, let's read carefully: "तत्र एणश्चारुनेत्र इत्येवं जातिभेदख्यापकन्तद्व्याख्यानञ्चा-" मरविवेके महेश्वरेण कृतम् ॥ Wait: जातिभेदख्यापकन्तद्व्याख्यानञ्चा- मरविवेके महेश्वरेण कृतम् ॥ Let's check every character: त (ta) त्र (tra) ए (e) ण (ṇa) श्चा (ścā) रु (ru) ने (ne) त्र (tra) इ (i) त्ये (tye) वं (va

इति । विकल्पः शक्त्यपेक्षया कुलकल्पापेक्षया वा ॥ ९ ॥ मुञ्ज-काश-तामुन्योरशनाः ॥ १० ॥ तमुनिः शणः । रशना मेखला । “रशना मेखला काञ्ची”त्यमरः । अन्यत्पूर्ववत् । मनुः— “मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ मुञ्जालाभे तु कर्त्तव्या कुशाश्मन्तकबल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥” इति । त्रिवृत् नवगुणीकृता त्रिवृतेति प्रथमान्तम् “आपश्चैव हलन्ता- नाम्” इति टाप् । एकेन ग्रन्थिनेत्यादीच्छया विकल्पः । उपलक्षणे तृतीया ( पा० २।३।२१ ) अत्र श्लक्ष्णा-मसृणस्पर्शा। मूर्वा-वल्लीविशेष. “दुग्ध (ध) मरुरि”ति प्रसिद्धा । तेन निर्मिता मौर्वी ज्या । [धनुर्गुणः ] तस्यैव सतो मेख- लायां विनियोगः । मुञ्जालाभे-मुञ्जाद्यभावे । अश्मन्तकः कुशसदृशतृणविशे- षः । बल्वजाः “शावय” इति प्रसिद्धाः । ग्रन्थौ प्रवरसाम्येन व्यवस्थितोविकल्प इति सुरारिमिश्राः (१) प्राहुः ॥ १० ॥ पार्ण-बैल्वा-ऽऽश्वत्था दण्डाः ॥ ११ ॥ पार्णः पालाशः “पलाशे किंशुकः पर्णोवातपोत” इत्यमरः । बिल्वाश्वत्थौ प्रसिद्धौ । पालाशादयः क्रमेण ब्राह्मणादीनान्दण्डाः प्रशस्ता इत्यर्थः । तथा च पारस्करः “पालाशो ब्राह्मणस्य दण्डो बैल्वो राजन्यस्यौदुम्बरो वैश्यस्य सर्वे वा सर्वेषाम्” । इति । एषामभावे सर्वेषां सर्वे यज्ञियाः । औदुम्बर इति कुल- कल्पभेदेन । स्मृतिः— “धारयेद्वैल्वपालाशौ दण्डौ केशान्तिकौ द्विजः । यज्ञार्हवृक्षजं वाऽथ सौम्यमव्रणमेव च ॥” इति । मनुः— “केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसम्मितो राज्ञः स्यान्नासासम्मितो विशः ॥” इति । केशस्य ललाटोर्ध्वकेशजन्मस्थानस्यान्तः केशान्तः। एवञ्चोर्ध्वस्थित- स्य पुरुषस्य भूमितस्तत्पर्यन्तपरिमाणंतो ब्राह्मणस्य दण्डः कार्यः । भ्रमध्य सम्मितो राज्ञः । नासाग्रसम्मितो वैश्यस्येत्यर्थः । यत्तु-केशान्तिकः कर्णसमीप- ( १ ) अत्र कुल्लूकभट्टः । अत्र च वाशब्दनिर्देशाद्ग्रन्थीनां न विप्रादिभिः क्रमेण सम्बन्धः । किन्तु सर्वत्र यथाकुलाचारं विकल्पः । ग्रन्थिभेदश्चायं मुख्यामुख्यापेक्षासम्भ- वाद्गृहीतव्यः ॥ इति ॥

केशमूलपर्यन्त इति कस्यचिद्व्याख्यानन्तन्न तथासति ब्राह्मणक्षत्रिययोस्तस्य तुल्यपरिमाणत्वेन पृथगुपदेशानर्थक्यापत्तेरिति बोध्यम् । तथा— “ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः । अनुद्वेगकरा नॄणां सत्वचानाग्निदूषिताः ॥” इति । ऋजव इति—अम्रादन्यत्र । “यूपवक्रा” इति गौतमेन नताग्रत्वस्य विधानात् । अव्रणा अच्छिद्राः । सौम्यदर्शनाः । अतिस्थौल्यादिनाऽभयानकाः । अनुद्वेगकारा स्वरूपेणाभीषणा इति मुरारिः । अदुःखदाः परेषामघातुकाना- मिति वयम् ॥ ११ ॥ इदानीमुक्तानां वसनानां व्यवस्थामुपदिशति— क्षौमंꣳशाणं वा वसनं ब्राह्मणस्य, कार्पाशं क्षत्रियस्याऽऽविकं वैश्यस्य ॥ १२ ॥ ऋज्वर्थं सूत्रम् ॥ १२ ॥ एतेनैवेतराणि द्रव्याणि व्याख्यातानि ॥ १३ ॥ एतेनैवानुसारेण । इतराणि अजिन-वसन-दण्डाख्यानि । व्याख्यातानि त्रयाणां यथाक्रमेणोक्तानि ॥ तथाच-ऐणेयमजिनं, मौञ्जी रशना, पार्णोदण्डश्च ब्राह्मणस्य, रौरवमजिनं, काशी रशना, वैल्वोदण्डश्च क्षत्रियस्य, आजमजिनं, शाणी रशना, आश्वत्थोदण्डश्च वैश्यस्येति सिद्धम् ॥ १३ ॥ अलाभे वा सर्वाणि सर्वेषाम् ॥ १४ ॥ अलाभे—स्वस्वजात्युक्तवसनादीनामसम्पत्तौ । सर्वाणि क्षौमादीनि वस- नादीनि सर्वेषां भवन्ति यथालाभम् । अत एव वसिष्ठः “सर्वेषान्तान्तवमर- क्तम्” इति । अरक्तं विकृतरक्तरहितं, कौशुम्भन्तुप्रशस्तं, तथाच गौतमः “स- र्वेषां कार्पासमविकृतं, काषायमप्येके” इति ॥ १४ ॥ पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ १५ ॥ निगद्व्याख्यातमेतत् ॥ १५ ॥ “अग्ने व्रतपत” इति हुत्वा पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङाचार्योऽवतिष्ठते ॥ १६ ॥ ( मं० ब्रा० १।६।९—१३ ) “यथा पाणिग्रहणे तथा चूडाकरणे चोपनयने” (१।९।२८) इत्यतिदेशा- दुपनयनकर्म्मणः पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिश्चतस्र आहुतयो भवन्ति, तदाहुतिचतुष्टयं कृत्वा “अग्ने व्रतपत” इत्येवमादिभिः पञ्चभिर्म्मन्त्रैः [ अ- नादेशादाज्येन ] पञ्चाहुतीश्च हुत्वा आचार्यः पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङ्

प्राङ्मुखः अवतिष्ठते-ऊर्ध्वस्थितोभवेत् । “हुत्वाऽऽचार्योऽवतिष्ठते”इति क्त्वा श्रवणात् कर्तृन्तरानुपदेशाच्च होमोऽयमाचार्यकर्तृक एव । मन्त्रास्तु माणव- कपठनीया “व्रतञ्चरिष्यामी”ति मन्त्रलिङ्गात् । नचेदानीं वेदपाठे तस्यानधि- कारः । उपनयनकर्मणः पूर्वमेव तथा स्यान्न तूपनयनकर्म्मण्यपि । मेखलामन्त्रे तत्कर्तृकपाठस्य सर्वसम्मतत्वात् । अन्यपठितमन्त्रेणान्यकर्तृकक्रियायाश्चाश्मा- रोहादौ बहुत्र दर्शनान्न किञ्चिदेतत् । कौमुदी—नारायण—शूलपाणि—हार- लताप्रभृतयोऽप्येवम् [१] ॥ १६ ॥ अन्तरेणाग्न्याचार्यौ माणवकोऽञ्जलिकृतोऽभिमुख आचार्यमुदगग्रेषु दर्भेषु ॥ १७ ॥ अत्रावतिष्ठत इत्यनुषञ्जनीयम् । अन्तरेणेति मध्यार्थेऽव्ययम् । तथाचा- मरः

: there is a 'ज', is there a dot? No dot. It's printed as "अनुषजनार्थश्चकारः" or "अनुषञ्जनार्थश्चकारः").

Let's check line 16: "मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति भाष्यकृतः । अवस्था य । ऊर्ध्वःस्थित्वा ।" Wait, "क्रियापत्तेरिति" or "क्रियाप्रवृत्तेरिति"? Look at L16: "मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति" -> क्री (kri) या (yā) प (pa) त्ते (tte) रि (ri) ति (ti) Yes, "क्रियापत्तेरिति" (kriyā-āpatteḥ iti = because the action would fall/occur facing south, which is inauspicious). "मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति भाष्यकृतः" - brilliant Sanskrit logic! Facing south in an auspicious rite would be an āpatti (undesirable occurrence).

Line 16-17: "अवस्था य । ऊर्ध्वःस्थित्वा । मन्त्रवान्-अध्ययनयुक्तः ।" Wait, "ऊर्ध्वःस्थित्वा" or "ऊर्ध्वं स्थित्वा"? Look at L16: "ऊर्ध्वःस्थित्वा" -> "ऊ र्ध्वः स्थि त्वा" (there

(द् + ग) or द् with virama? Look at: आ ङ् प ू र् व ा द् ग म े स ् Wait, it has a horizontal-ish stroke below द्, which in some fonts is just virama! But does it look like 'दू'? In many Nirnaya Sagar / Chowkhamba fonts, virama under द curves down-right like a little tail, often transcribed as द् or दू. But grammatically it is आङ्पूर्वाद् गमेः (ablative of आङ्पूर्व + गम्). It's clearly a virama on द! Wait, look at: आङ्पूर्वाद्गमेस्ताच्छीलिकस्तृन्प्रत्ययः Let's write आङ्पूर्वाद्गमेस्ताच्छीलिकस्तृन्प्रत्ययः (or if it's printed as दू, wait, is there an actual standalone ू? No, it's attached to द: द्). It is definitely द्गमेस्! Wait, look at Note 2: अत्राङ्पूर्वाद्गमेलिङर्थे Same ligature द्ग!

Let's check L2: न्त्रा' आगमनशीलेन(१) ब्रह्मचारिणा । वयं 'समगन्महि' सङ्गच्छेमहि(२) । Wait, look at the beginning of L2: न्त्रा' आगमनशीलेन(१) Before न्त्रा, is there something? It starts with: न्त्रा' आगमनशीलेन(१)

२३२ उपनयनविधिः । २ प्रपाठके- पृच्छति । अत्र क इति नामविषयकः प्रश्नः । नामेति प्रसिद्धार्थकम् अव्ययम् । तथा च प्रसिद्धं नाम पृच्छति । कोऽसीति सूत्रार्थः ॥ २२ ॥ किं कृत्वा— अभिवादनीयं नामधेयङ्कल्पयित्वा ॥ २३ ॥ अभिवादनं-पादोपसङ्ग्रहणम् । सम्भाषणं वेति चन्द्रकान्तः । “समे तु पादग्रहणमभिवादनमित्युभे” इत्यमरः । तदर्थमभिवादनीयम् । नामधेयत्वेन ( पा० १।१।७५ वा० ) वृद्धत्वाच्छः ( पा० ४।२।११४ ) तस्यानीयर् ( पा० ४।४।२ ) कल्पयित्वेति वचनात्तदानीमेवाचार्येण तत्कल्पनमायाति । अभिवा- दनीयमितिकरणात्सर्वत्रैवाभिवादने ब्रह्मचारिणाऽऽचार्यकल्पितेनैव नाम्ना व्यवहरणीयमिति बोधयति ॥ २३ ॥ अभिवादनीयनाम विशिनष्टि— देवताश्रयं वा नक्षत्राश्रयं वा ॥ २४ ॥ आद्यं यथा—“विष्णुशर्म्मनामा(१)सी”ति । द्वितीयं यथा—“फाल्गुनश(२)- र्म्मनामासीः'ति ॥ २४ ॥ गोत्राश्रयमप्येके ॥ २५ ॥ तद्यथा “कौशिकशर्म्मनामासी-”ति ॥ २५ ॥ ततो माणव(३)केन “ॐ अमुकनामाऽस्मी—”त्याचार्यकल्पिते नाम्नि कथिते— उत्सृज्यापामञ्जलिमाचार्योदक्षिणेन पाणिना दक्षिणं पाणिं साङ्गुष्ठं गृह्णाति—“देवस्यते सवितुः प्रसवेऽश्विनोर्बा- हुभ्याम्पूष्णोहस्ताभ्याꣳहस्तं गृह्णाम्यसा(४)- वि”—ति ॥ २६ ॥ ( मं० ब्रा० १।६।१८ )


( १ ) अत्र नामधेये “शर्म्मान्तं ब्राह्मणस्ये”ति मानवं वचनं मानं, विशेषविचारस्तु- नामद्वैतप्रकरणे द्वैतनिर्णये द्रष्टव्यः । ( २ ) नक्षत्रपदेन यन्मास्युपनयनन्तत्समाख्यापकमेवेति केचिदाचक्षते ॥ केचित्तु शतपदचक्रानुसारिजन्मनक्षत्राश्रयन्नामाहुस्तत्तुच्छं तस्यगुह्यत्वस्यागमेऽप्यभिधानात् । तथाचशारदातिलकटोकायां राघवभट्टोद्धृतम् “जन्मनक्षत्रयोन्या नौ मारणानि यथातथम् । कृतानि न चिरेणैव सिद्धिदानि महेश्वरी” तिवचनम् ॥ ( ३ ) अत्र “कोनामासि”? “असौनामास्मी”त्येवं ब्राह्मणे सहैव द्वयं पठ्यते । विनियोगोऽपि पृथगेव बौद्धेश्वरादिपद्धतिषु पठ्यते । “ॐ विष्णुशर्म्मनामास्मी”त्येवं वाक्याभिलापश्च । सूत्रकृता तूत्तरवाक्यस्यानभिधाने कारणं मृग्यम् ॥ ( ४ ) अस्य ह्रस्य अश्छान्दसः ( पा० ८।२।३३ वा० ) ॥

An exact, line-by-line transcription of the provided page:

पाणिं "माणवकस्ये"ति शेषः । ग्रहणमन्त्रमाह "देवस्यत" इति । अत्रा- साविति स्थाने माणवकस्य स्वकल्पितन्नाम सम्बोधनान्तं प्रयोक्तव्यम् । एवमग्रेऽपि । नारायणवीरेश्वरादयोऽप्येवम् । अत्र माणवकस्यापि जलाञ्जल्युत्सर्ग आचा- र्यस्यैवावगन्तव्योऽविशेषेणोपदेशात् । मन्त्रार्थस्तु—हे 'असौ ! विष्णुशर्म्मन् ! 'तव' हस्तं 'सवितुर्देवस्य' 'प्रसवे' अभ्यनुज्ञाने (१)सति । "अश्विनो"र्देवभि- षजोः । 'बाहुभ्यां' 'पूष्णः' पूषापिष्टाद(२)इत्येवं ख्यातस्य देवविशेषस्य 'हस्ता- भ्याम्' अहम् आचार्यस्तव 'हस्तं' करं 'प्रतिगृह्णामि' । अत्र सर्वत्र स्वत्वं ३()- षष्ठ्यर्थस्तत्प्रत्ताभ्यामित्यर्थः ॥ १८ ॥ इति ॥ अत्र मन्त्रपाठानन्तरं हस्तग्रहणं बोद्धव्यमिति (४)भा

२३४ उपनयनविधिः। [ २ प्रपाठके णावकस्य नाम गृह्णीयात् । एवमग्रेऽपि (३२सू०) असावित्यत्र प्रथमान्तमिति विशेषः । मन्त्रोयथा— “प्राणानाङ्ग्रन्थिरसि माविस्रसोऽन्तक इदन्ते परिददा- म्यमुम्” इति ॥ २० ॥ अस्यार्थः । हेनाभे ! अस्य ब्रह्मचारिणस्त्वं ‘मा विस्रसः’(१) मा विस्रंसिष्यसि । स्व- स्थानान्न चलिष्यसि । यस्त्वं ‘प्राणानां’ देहधारकवायूनां ‘ग्रन्थिः’ प्रतिबन्धः । ‘असि’ भवसि । तथा हे ‘अन्तक !’ यम ! ‘इदम्’ अस्य ब्रह्मचारिणः शरीरम् ‘अमुम्’ ब्रह्मचारिणञ्च ‘ते’ तुभ्यं ‘परिददामि’ समर्पयामि । त्वयि समर्पित एष रोगजरामरणादिकन्नानुप्राप्नुयादिति ॥ २० ॥ २८ ॥ उत्सृप्य नाभिदेश-‘‘महुर’’ इति ॥ २९ ॥ ( मं० ब्रा० १।६।२१ ) उत्सृप्य—नाभेरूर्ध्वङ्करन्नीत्वा नाभिदेशं-तत्समीपदेशम्(२) । जठरमिति तदर्थः । मन्त्रलिङ्गात् । अहुरशब्दस्य जठराग्निवाचकत्वाम्नानात्तमभिमृशेदित्य- नुवर्त्तते । एवमग्रेऽपि । मन्त्रस्तु— ‘‘अहुर इदन्ते परिददाम्यमुम्’’ ॥ २१ ॥ इति । अस्यार्थः । हे ‘अहुर’ जठराग्ने ! इदमित्यादिपूर्ववत् । गुणविष्णुस्तु-अहुरिर्नाम वायुः । तस्यामन्त्रणे हे अहुरे ! इत्येवं व्याख्यातं(३) ॥ २१ ॥ २९ ॥ उत्सृप्य हृदयदेशं ‘‘कृशन’’ इति ॥ ३० ॥ ( मं० ब्रा० १।६।२२ ) कृशनोहृच्छयः पुरुषः । तथाच श्रुतिः । ‘‘स चापर आत्मा हृदी-”ति । मन्त्रस्तु-‘‘कृशन इदन्ते परिददाम्यमुम्” इति ॥ २२ ॥ अर्थः पूर्ववत् ॥३०॥ दक्षिणेन पाणिना दक्षिणमंसमन्वालभ्य “प्रजापतये त्वा परिददाम्यसावि”-ति ॥ ३१ ॥ ( मं० ब्रा० १।६।२३ ) असाविति-सम्बोधनान्तनामग्रहणम् । एवमग्रेऽपि । मन्त्रार्थः स्पष्ट एव ३१ सव्येन सव्यं “देवाय त्वा सावित्रे परिदाम्यसावि-”ति ॥ ३२ ॥ ( मं० ब्रा० १।६।२४ ) ( १ ) ‘‘स्रंसुअधः पतने” ( भ्वा०आ० ) द्युतादिः । ‘‘माकि लुङ्-” ( पा० ३।३। १७५ ) सर्वलकारापवादः । ‘‘द्युभ्यो लुङि” ( पा० १ । ३ । ९३ ) इति परस्मैपदे द्युतादि- त्वात् ( पा० ३।१।५५ ) चलेरङि नलोपः ( पा० ६।४।२४ ) । ( २ ) सामीप्यलक्षणया ‘‘वटे गावः सुशेरत” इति वत्प्रयोगोऽयम् । तेन नाभ्युपरि- देश उक्तो भवति मध्यमपदलोपिसमासात् । ( ३ ) अत्र षष्ठ्यादेशे यलोपः । ( पा० ८।३।१९ ) ।

सव्यमित्यत्रांसमित्यनुषज्यते । स्पष्टमन्यत् ॥ मन्त्रार्थोऽपि स्पष्ट एव ॥३२॥ अथैनँ सम्प्रेष्यति-“ब्रह्मचार्यस्यसावि-”ति ॥ ३३ ॥ ( मं० ब्रा० १।७।२५ ) अथेति पूर्वप्रकृतार्थम् । अथ पूर्वकृतमंसयोर्गृहीतमेवैनं माणवकं सम्प्रेष्यति समादिशत्याचार्यः । कि ? “ब्रह्मचार्यस्यसावि”ति । अस्यार्थः हे असौ ! माणवक ! इतः प्रभृति त्वं 'ब्रह्मचारी' तन्नामानुरूपकर्मा(१) ‘असि’ भवसि । अतोब्रह्मचर्यनियमं मधुमांसवर्जनादिकं त्वया आ ब्रह्मचर्यपरिसमाप्तेः पाल- नीयमिति ॥ ३३ ॥ अथापरमतिदिशति— समिधमाधेह्य-पोऽशान-कर्म्मकुरु-मा दिवा स्वाप्सीरिति ॥ ३४ ॥ ( मं० ब्रा० १।६।२६ ) यत्तु वक्ष्यति अस्तमिते समिधमादधातीति । तां समिधं सायं प्रातराधेहि। अग्नयेऽर्पय । यच्च श्रुतावभिहितं “तस्माद्वा-एतदन्नमशिष्यन्पुरस्ताच्चोपरिष्टा- च्चाद्भिः परिदधा(२)ति” इति । तदिदमादिशति “अपोऽशाने”ति । अप- उदकम् । अशान-भक्षय । भोजनात्पुरस्तादुपरिष्टाच्चेत्यर्थः । मन्त्रौ तु-शाखा- न्तरादुपादेयौ “अमृतोपस्तरणमसि स्वाहे”ति पुरस्तात् । “अमृताऽपिधान- मसि स्वाहे” त्युपरिष्टात् । अन्यच्च-यत्किञ्चिद्विदितं गुरुशुश्रूषादि कर्म्मत्त- त्कुरु । इत्यपर आदेशः । दिवा-दिवसे । मा स्वाप्सीः । शयनम्मा कार्षीरिति । गुरुणा ह्येवमादिष्टो ब्रह्मचारी सर्वत्रैव “बाढमि”ति “ओमि”ति वा ब्रूयात् । एवञ्चादेशमनुपालयेदाब्रह्मचर्य्यम् । तदाहकर्म्मप्रदीपः— “ब्रह्मचारी समादिष्टोगुरुणा वृतकर्म्मणि । बाढमोमिति वा ब्रूयात्तत्तथैवानुपालयेत् ॥” इति ॥ ३४ ॥ उदगग्नेरुत्सृप्य प्राङाचार्य उपविशत्युदगग्रेषु दर्भेषु ॥३५॥ उदक्-उत्तरस्यान्दिशि । प्राङ्-प्राङ्मुखः । एवमग्रेऽपि ॥ ३५॥ प्रत्यङ् माणवकोदक्षिणजान्वक्तोऽभिमुख आचार्य्यमुदगग्रे- ष्वेव दर्भेषु ॥ ३६ ॥ माणवकस्तु-दक्षिणजान्वक्तः । दक्षिणं जानु अक्तं भूमिगतं यस्य स तथाभूतः । “अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु” ( रु० प० ) गत्यर्थत्वात्क्त- ( १ ) ब्रह्मवेदस्तदध्ययनार्थं व्रतमपि लक्षणया ब्रह्मोच्यते । तच्चरत्यनुतिष्ठतीति ब्रह्मचारी । ताच्छील्यार्थे ( पा०३।२।७८ ) णिनिप्रत्ययः । उपधावृद्धिः ( पा०७।२।११६ ) सततकरणञ्च ताच्छील्यम् । ( २ ) परिधानमिहोपस्तरणमावरणञ्च मन्त्रलिङ्गादेव ।

रिक्तः (पा० ३।४।१२) भूगतदक्षिणजानुः । आचार्याभिमुखः । प्रत्यङ्मुखः । उदगग्रेषु दर्भेषूपविशति । उदङ्-अग्नेरुत्तरत एव ॥ ३६ ॥ अथैनं त्रिः प्रदक्षिणं मुञ्जमेखलां परिहरन् वाचयति- "यं दुरु- त्परिबाधमाने-"ति । "ऋतस्य गोप्त्रीति च ॥३७॥ ( मं० ब्रा० १।६।२७-२८ ) अथ-अनन्तरमेव । उपविष्टमेव । एनं-माणवकं परिहरन्-परिवेष्टयन् कटिप्रदेशे प्रादाक्षिण्येन त्रिवेष्टयन्(१)। परिवेष्टनावृत्तावपि मन्त्रवाचनं सकृदेव "एकद्रव्ये कर्मावृत्तौ सकृन्मन्त्रवाचनमि"-त्युपनिदर्शनान् । मन्त्रौ यथा- "इयन्दुरुक्तात्परिबाधमाना वर्णं पवित्रं पुनतीम आगात् । प्राणापानाभ्यां बलमाहरन्ती स्वसा देवी सुभगा मेखलेयम् ॥३७॥ ऋतस्य गोप्त्री तपसः परस्वी घ्नती रक्षः सहमाना अरातीः । सा मा समन्तमभिपर्येहि भद्रे ! धर्त्तारस्ते मेखले मा रिषाम" ॥२८॥ इति । अनयोरर्थः-ब्रह्मचारी ब्रूते-'इयं' प्रत्यक्षा मेखला मौञ्जी(२) 'नः' अस्मान् । 'आगात्' आगता । किङ्कुर्वती ? 'दुरुक्तात्' असम्बद्धप्रलापादितः बाल्यकृतात् 'परि' सर्वतो 'बाधमाना' निवारयन्ती । 'पवित्रम्' अपि 'वर्णं' ब्राह्मणादिकं 'पुनती' द्विजत्वसम्पादनेन पावयन्ती । तथाच स्मृतिः-"मातुर्य- दग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात्" इति । पुनश्च प्राणापनाभ्यां' प्राणापा- ( १ ) अत्र 'मेखलां बध्नीते" ( पा० २।२।८।१० ) इत्यादि परशाखीयगृह्यसूत्र- व्याख्यायां हरिहरमिश्राः । "ततोमेखलाम्मौञ्जीयादिकां वक्ष्यमाणलक्षणां बध्नीते (आ- चार्यः) कटिप्रदेशे त्रिवृतां प्रवरसंख्याग्रन्थियुतां प्रादक्षिण्येन परिवेष्टयति । इयमित्यादि- मन्त्रेण माणवकपठितेन । ( मन्त्रलिङ्गात् ) एवं गदाधरभाष्येऽपि-तत अचार्य्योमाणवक- कट्यां मेखलां रसनां बध्नीते । अत्रैवं बन्धनम् । आचार्य्यस्त्रिगुणाम्मेखलामादाय माणव- कस्य वटोः कटिप्रदेशे प्रादक्षिण्येन त्रिवेष्टयति । तृतीये वेष्टने ग्रन्थयस्त्रयः पञ्च सप्त वा का- र्याः । तदुक्तम्- "त्रिवृता मेखला कार्या त्रिवारं स्यात्समावृता । तद्ग्रन्थयस्त्रयः कार्याः पञ्च वा सप्त वा पुनः॥" इति । अत्र प्रवरसंख्यायां नियमः । त्र्यार्षेयस्य ग्रन्थित्रयं, पञ्चा- र्षेयस्य पञ्च । सप्तार्षेयस्य सप्तेति गर्गपद्धतौ । वृद्धाचारोऽप्येवमेव । आचार्य्यकर्तृकं मेखलाबन्धनं, कुमारस्य मन्त्रपाठः इति वासुदेव-मुरारिमिश्र-जयराम-हरिहराः । इत्या- दि ॥ तदित्थं कटिशब्दस्य स्कन्धपरत्वं व्यवस्थापयन्तस्तदर्थं सुधा क्लिश्यन्तः प्रति- समाहिता वेदितव्याः । ( २ ) उपलक्षणमेषा यथावर्णं मौर्व्यादेः । मेखलेति कटिप्रदेशस्थाया रसनाया नाम तथाच हेमः "मेखलाऽद्रिनितम्बे स्याद्रशनाखड्गबन्धयोरि"ति । "स्त्री कट्यां मेखला काञ्ची'त्यमरश्च । स्त्री-स्त्रीलिङ्गाभिधायि । तथाच कटिबन्धनं मेखलेति सर्वसम्मतम्॥ तत्र तच्च सप्तेति समाख्यया सप्तहस्ता सा भवति माणवकहस्तेनेति बोध्यम् । तथाच स्मर- न्त्यपि-"मेखला सप्तहस्ता स्यात्" इति ।

भ्यः(१) । 'बलम्' वीर्यम् 'आहरन्ती' आनयन्ती । ( आहृत्य स्थापयन्ती ) स्वसा' स्वसृवद्धिता(२) । 'देवी' दीप्तिमती । अत एव 'सुभगा' सौभाग्यप्रदा । सर्वलोककाम्येति गुणविष्णुः ॥ २७ ॥ हे 'भद्रे !' शोभने ! 'मेखले !' या त्वं ब्रह्मचारिसम्बन्धिनः 'ऋतस्य' सत्यस्य यज्ञस्य(३) वा 'गोप्त्री' पालयित्री 'तपसः' ब्रह्मचर्यस्य 'परस्वी' सर्व- स्वभूता(४) 'रक्षः' रक्षांसि । जातावेकवचनम् । 'घ्नती' विनाशयन्ती । अराती:(५) शत्रून् । 'सहमानाः' (६)अभिभवन्ती । सा एवम्भूतात्वं 'मा' मां 'समन्तम्' समन्तात्(७) ( सर्वतः ) 'अभिपर्येहि' आभिमुख्येनागच्छ(८) । वेष्टयेत्यर्थः। यथा 'ते' तव 'धर्त्तारः' कटौ धारयितारोवयम् केनचित् 'मा रिषाम' (९)मा हिंसिष्महि । ( हिंसिता मा भवेम ) इति ॥ २८ ॥ अथ कौपीनपरिधानं तज्ञोपवीतधारणञ्च । तत्र प्रथममाचम्य-ब्राह्मणेभ्यः सपूगयज्ञोपवीतभाण्डाष्टतयदानमाजानिकाचारात् अत्र मानमुपनिषत्सु “अष्टौ ब्राह्मणान्ग्राहयित्वा विद्या सिद्धिर्भवति” त्यसनुदाम्नायते । तदेतदत्रापि ब्राह्म- णेभ्यः पूर्वम्प्रदाय विद्यासिद्ध्यै यज्ञोपवीतधारणमिति मम प्रतिभाति । एतच्च यज्ञोपवीतधारणं सूत्रानुक्तकालमपि(१०) इदानीमेव । अन्यत्र तथादर्शनात् । तथाच मेखलाबन्धनानन्तरं जातकर्णः—“पवित्रञ्चास्मै प्रयच्छति । ( १ ) षष्ठ्यर्थे चतुर्थी ( पा० २।३।६२ ) । ( २ ) परार्थे प्रयुज्यमानाः शब्दाः सादृश्यङ्गमयन्तीति गुणविष्णुः । ( ३ ) तथाच निरुक्तम् “ऋतमिति सत्यं वा यज्ञं वे”ति ( ४।१९ ) । ( ४ ) “गौरादित्वात्” ( पा० ४।१।४१ ) ङीष् ॥ ( ५ ) तथाच श्रुतिः “या नोदूरे तदितो या अरातयोऽभिसन्ति जम्भया ता अन- नसः” ( ऋ० सं० २।६।३० ) इति । अत्रारातयः शात्रवीः सेना इति दुर्गाचार्याः । कोशे तु पुल्लिङ्गोऽपि “रिपौ वैरियसत्त्वारि…………अभिघातिपराशतिप्रत्यर्थिपरिपन्थिन” इत्यमरः । ( ६ ) “षहमर्षणे” ( भ्वा० आ० ) लटः शानच् । मर्षणं क्षमा अभिभवनचेति ( सि० कौ० ) दीक्षितचरणाः प्राहुः । ( ७ ) त्सोऽत्राऽमादेशः । ( पा०

२३८ उपनयनविधिः। [ २ प्रपाठके “यज्ञोपवीतम्परमं पवित्रमिति” इति । अपि च-“सदा मन्त्रवदाधार्यमुपवीत- न्द्विजातिभिः”।ति देवलवाक्याद् द्विजत्वसम्पत्त्यनन्तरमेवोपवीतधारणमायाति। अत्राङ्‌मर्यादार्थः । मर्यादयेति तदर्थः । मर्यादा तूक्ता प्राक् (२।२।१-३) द्विज- त्वञ्च मेखलाबन्धनादनन्तरमेव । तथाच याज्ञवल्क्यः— “मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजातयः ॥” इति । अत्रोक्तदेवलवचने मनौ च— “मेखलामजिनन्दण्डमुपवीतंङ्कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥” इत्येवं समन्त्रकत्वन्तद्ग्रहणे स्मर्यते । तदत्रानुपदेशा(१)च्छाखान्तरोक्त- मन्त्रमुपादद्यात् । यथा- “यज्ञोपवीतमसि यज्ञस्य त्वोपवीतेनोपनह्यामी”ति ! अस्यार्थः । हे उपवीत त्वं ‘यज्ञोपवीतम्’ तन्नाम ‘असि’ भवसि । अतः ‘त्वा’ त्वाम् ‘यज्ञस्य’ यज्ञसम्बन्धिना । तृतीयार्थे षष्ठी ( पा० ३।२।८५ ) ‘उपवीतेन’ ब्रह्म(२)सूत्रेण ‘उपनह्यामि’ परिदधामि । यज्ञोपवीतलक्षणमुक्तमधस्तात् । ( १।२।१-३ ) अथोक्तम् ( २।१०।९ ) अजिनमपोदानीमेव । “मित्रस्य चक्षुरि”ति तैत्ति- रीयशाखीयमन्त्रेण परिधापयेत् । तदेतत्सर्वम् “यन्नाम्नातं स्वशाखायामि”- ति कातीयपरिभाषणाद्बोध्यम् । तथाचाश्वलायनः “यज्ञोपवीतमजिनञ्चे”ति । एवञ्च द्रव्यकथनसूत्रक्रमेण नैतद्धारणम् । तत्र क्र

hyphen! And before that: कर्त्तरि क्तान्तम् or कर्तृ क्तान्तम्? Look at कर्तृ: र् on तृ? No, it's कर्तृ (or कर्त्तरि). Wait, र् तृ न् म् -> कर्तृक्तान्तम्? Wait, is there a ? No. Look at: कर्तृ - wait, does it say कर्तृ? Yes, with र् on and under it: कर्तृ! Wait, and then क्तान्तम्? It is क्तान्तम् without the loop? It looks like कान्तम् with a small or क्तान्तम्. Wait, in line 26: ( १ ) अत्रोपसत्तिर्नाम पादोपसङ्ग्रहणम् । उपसन्न इति कर्तृक्तान्तम् । सीदतेर्गत्य- Line 27: र्थत्वात् "गत्यर्थाकर्मके" ( पा० ३।४।७२ ) त्यादिना क्तः ।

Footnote (२): Line 28: ( २ ) वस्तुतस्त्वध्यापनं वेदस्य पुरःस्वयमधीत्य पश्चादन्तेवासिना सह पठने वदि- Line 29:

ग्रह्णाय । सहानुवर्तनम् । तृतीयवारे माणवकेन सह पठन् । एतच्च शक्त्यपे- क्षयाभिधानम् । यदि माणवकोमन्दमेधस्त्वार्थ(१)थावदध्येतुन्न शक्नुयात्तदा यथाशक्त्यस्याध्यापयेत् । तथाचाश्वलायनगृह्यम् "सावित्री मन्वाह पच्छो- ऽर्द्धर्चशः सर्वशँयथाशक्ति वाचयीते"ति । अत्रेतिशब्दः क्रमप्रकार- ज्ञापनार्थः ॥ ३९ ॥ महाव्याहृतीश्च विहृता ॐकारान्ताः ॥ ४० ॥ [ मं० ब्रा० १।६।३० ] विहृताः । विकृष्य हृताः पृथक्कृताः । विहिता इतिपाठे प्रयुक्ता इत्यर्थः । विहृता इति पाठे पृथग्भूता न संहता इति यावत् । केचिद्विकृता इति पठन्ति । तत्रापि पृथग्भाव एवविकार इति तुल्योऽर्थः । ओंकारान्ताः । ओंकारः अन्ते यासान्ताः । तेन विहृतानामेवौकारान्तत्वम् । एवञ्च भूरों भुवरों स्वरों । इति प्रयोगः सिध्यति । इति नारायण-मुरारिमिश्रादयः । भवदेवभट्टस्तु ॐभूरित्ये- वम्प्रायुङ्क्त । तस्य मतेऽन्तशब्द आद्यर्थः । "पर्युक्षणान्तान्यतिहरन्" १।३।५ इत्यत्रय यथा । वीरेश्वरस्तु तदुभयमनुसरन् ॐभूरों, ॐभुवरों, ॐस्वरों, इत्येवं स्वपद्धतौ प्रायुङ्क्त । तत्र मन्त्रादौ प्रणवदानं सम्प्रदायसिद्धमन्ते च सूत्र(२)वि- हितमिति बोध्यम् ॥ ४० ॥ वार्क्षञ्चास्मै दण्डम्प्रयच्छन्वाचयति "सुश्रवः सुश्रवसम्मा कुर्वि"-ति ॥ ४१ ॥ ( मं० ब्रा० १।६।३१ ) वृक्षस्येदं वार्क्षम् । प्राप्तदण्डानुवादेन प्रदानमात्रविधानात्पार्णा(३)दिरूपमित्यर्थः । अत्र चन्द्रकान्तः । वार्क्षञ्चेतिशब्दादजिनमपीदानीमेवप्रयच्छतीतिव्याचष्टा-


( १ ) सकृन्मात्रोपदेशेन । ( २ ) यत्तु - "ब्रह्मणः प्रणवङ्कुर्यादादावन्ते च सर्वदा । क्षरत्यनोङ्कृतम्पूर्वम्परस्ताच्च विशोर्यते" इति मनुवचनन्तद्वेदपारायणविषयन्न तु महाव्याहृतेः सावित्र्या वा प्रदान- विषयम् । जपविषये तु गायत्र्या एव योगियाज्ञवल्क्येनाद्यन्तयोः प्रणवयोग उक्तः "ॐ कारः पूर्वमुच्चार्योभूर्भुवः स्वस्ततः परम् । गायत्री प्रणवश्चान्ते जप्येह्येवमु

णाद्दण्डधारणोत्तरमजिनधारणमभिप्रेति तदाचारविरुद्धम् । मनुनाऽपि “मेखला- मजिनन्दण्डम्” इति क्रमएवाभ्यधायि । एवमाश्वलायनेनापि मेखलामुपक्रम्य “यज्ञोपवीतमजिनं चे”त्युक्तमित्युक्तमनुपदम् । तमिमन्दण्डमस्मै ब्रह्मचारिणे । प्रयच्छन् — ददत् “सुश्रवः” इत्यादिमन्त्रं वाचयति ब्रह्मचारिणमेव । मन्त्रोयथा— “सुश्रवः सुश्रवसं मा कुरु । यथा त्वमग्ने सुश्रवःसुश्रवा देवे- ष्बेवमहं सुश्रवः सुश्रवा ब्राह्मणेषु भूयासम्” ॥ ३१ ॥ इति । अस्यार्थः—दण्डं गृह्णन्ब्रह्मचारी तमग्निञ्चप्रार्थयते—हे सुश्रवः ? शोभनं श्रवोयशःप्रशंसा(१)यस्य ससुश्रवात्तत्संबोधने । हे शोभनकीर्ते दण्ड ! यथात्वं वेदधारणार्थज्ञानादिना(२) लोके प्रख्यातयशाः । एवं 'मा'माम् अपि 'सुश्रवसं' सुयशसं 'कुरु' । एवन्दण्डं प्रार्थ्याग्निमपि प्रार्थयते-हे अग्ने ! 'सुश्रवः शोभन- कीर्ते !' 'यथात्वं' 'देवेषु' देवमध्ये 'सुश्रवाः' शोभनयशाः' [ सुयशाः ] असि । 'एवमहम्' अपि 'हेसुश्रवः(३) !' शोभनकीर्ते । 'ब्राह्मणेषु' मनुष्येषु(४)'सुश्रवाः' सुयशाः 'भूयासम्' भवेम । प्रशंसायामाशिषि लिङ् ॥ ३१ ॥ इति ॥ ४१ ॥ अथ भैक्षञ्चरति ॥ ४२ ॥ अथ शब्दोऽयं विशिष्टमानन्तर्यं द्योतयति—यद्दण्डमजिनञ्च प्रतिगृह्या- देशञ्च गुरोरङ्गीकृत्य भास्करमुपस्थायाग्निं प्रदक्षिणीकृत्य अथ-अनन्तरं भैक्षं भिक्षासमूहम् । “भिक्षादिभ्योऽण्” ( पा० ४।२।३८ ) इति सामूहि कोऽणादि- वृद्धिः । “भैक्षं भिक्षाकदम्बकम्” इत्यमरः । चरति-चरेत्-आहरेदित्यर्थः । तथाच मनुः— “प्रतिगृह्येप्सितन्दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निञ्चरेद्भैक्षं यथाविधि ॥” इति । उपस्थाय-अभिमुखमवस्थाय ॥ ४२ ॥ मातरमेवाग्रे, द्वे चान्ये सुहृदौ, यावत्योवा सन्निहिताः स्युः ॥४३॥ मातरम्—स्वजननीमेवाग्रे-प्रथमं, “प्रार्थयेदि”ति शेषः । सुहृदौ-स्निग्धहृ- दये । यावत्योवा योषितः । सन्निहिताः । सन्निधौ स्थिताः । स्यु-र्भवेयुः । नचैनं ( १ ) शृणोतेः कर्मण्यसुन् ( उ०४।८८) श्रूयेमहीति श्रवः । यशः प्रशंसा वा । “श्रवश्वाच्छा पशुमच्च यूथम्”। ( ऋ० सं० ३।७।११।६ ) इति । “प्रशंसाश्व यूथञ्च”ति ( ४।२४ ) निरुक्तम् । (२) दण्डस्यार्थज्ञानहेतुता व्रतसम्पादनद्वारा सौकर्यातिशयं द्योतयितुं श्रुत्याऽभिहिता। ( ३ ) पुनरामन्त्रणेन दण्डादग्नेः सुश्रवस्त्वातिशयःख्याप्यते । ( ४ ) अत्र विशेषाभिधायिनोऽपि सामान्यपरत्वं गुणविष्ण्वादिभिरुक्तम् । ३१ गो० गृ०सू०

२४२ उपनयनविधिः । [ २ प्रपाठके- विमानयेयुस्तावतीर्वा प्रार्थयेत् । तथाच मनुः- “मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं याचैनं न विमानयेत् ॥” इति । भविष्यपुराणे चोक्तमनुवचनान्ते-“सुवर्णं रजतं रत्नं सा पात्रेऽस्य विनिक्षिपेत्” इति पठ्यते । सा-भिक्षादात्री मात्रादिः । निजां-सोदर्याम् । प्रथम-मुपनयनकालिक (१) भिक्षायाम् ॥ सन्निहिता इत्युक्त्या तत्रस्था एव भिक्षेत न पुनः स्थानान्तरं गत्वेति बोद्धव्यम् । तत्प्रकारमाह-मनुः- “भवत्पूर्वञ्चरेद्भैक्षमुपनीतो द्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥” इति । एवञ्च “भवति ! भिक्षान्देहि”-ति वाक्येन ब्राह्मणेन, “भिक्षां भवति ! देहि-”ति क्षत्रियेण । “भिक्षां देहि भवती”-ति वैश्येन भिक्षाचरण- ङ्कर्त्तव्यमित्यायाति । हारीतः- “सप्ताक्षराञ्चरेद्भिक्षां क्षाञ्च हिञ्च न वर्जयेद्”-ति । क्षाञ्च हिञ्चेत्यनेन भिक्षान्देहीति पदयोःप्रयोगोऽप्यावश्यक एवेति कल्प- तरुः । गौतमः-“आदिमध्यान्तेषु भवच्छब्दः प्रयोऽग्योवर्णाऽनुपूर्व्येण”-ति । यमः- “हस्तदत्ता च या भिक्षा सलितं व्यञ्जनानि च । भोक्ता त्वशुचितां याति दाता स्वर्गन्न गच्छति ॥” इति ॥ ४३ ॥ आचार्य्याय भैक्षं निवेदयति ॥ ४४ ॥ आचार्यायोपनेत्रे । भैक्षं-लब्धभिक्षानिचयम् । “भिक्षादिभ्योऽण्” (पा०४। २।३८) इति सामूहिकेऽणि आदिवृद्धिः । “भैक्षं भिक्षाकदम्बकम्”त्यमरः । ( १ ) शौनकः । “अप्रत्याख्यायिनमग्रेभिक्षेत् । अप्रत्यख्यायिनीं वा” इति । मनुः “गुरोःकुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्वपूर्वविवर्जयेत् ॥” इति । पारस्करः “तिस्रोऽ

१० कण्डिका ] गोभिलगृह्यसूत्रे- २४३ निवेदयति । निवेदये-दर्पयेत् । निवेदनप्रकारश्च “भैक्षमभोः” इत्याचार्याय निवेद्य तद्दत्तं प्रतिगृह्णीयात् इति । आचार्येण तदानञ्च “भुङ्क्ष्वे”त्यनुज्ञान- रूपम् । अत्राचार्यः प्रथमां भिक्षां गृहीत्वा द्वितीयादिकां “भुङ्क्ष्वै”त्यभिधाय ब्रह्मचारिण एव दद्यात् । स च तामादाय धारयेत्(१) ।। ४४ ।। स्वयञ्च तद्दिने— तिष्ठत्यहः शेषं वाग्यतः ॥ ४५ ॥ अहश्शेषमासायम्मौनी तिष्ठेदित्यर्थः । वक्ष्यमाणकर्मार्थमेतत् । तेनान्य- दिने-मनुः— “समाहृत्य तु तद्भैक्षं यावदर्थममायया । निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥” इति ॥ यावदिति । यावद्(२)र्थजातमुपात्तन्तदनपह्ववेन । एवञ्चाचार्या- याहृतार्थमिदन्निवेदन(३)मात्रन्न तु दानमेवेति द्रष्टव्यम् ॥ ४५ ॥ अस्तमिते समिधमादधाति “अग्नये समिधमाहार्षम्” इति ॥ ४६ ॥ ( मं० ब्रा० १।६।३२ ) अस्तमिते-अस्तङ्गते सवितरि । “अग्नये समिधम्”-ति मन्त्रेण समिध- मुक्तलक्षणम् ( १।१।७ ) आदधाति-आदध्यादग्नौ प्रक्षिपेत् । मन्त्रोयथा— “अग्नये समिधमाहार्षं बृहते जातवेदसे । यथात्वमग्ने ! समिधा समिध्य- स्येवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन धनेनान्नाद्येन समे- धिषीय स्वाहा” ॥ ३२ ॥ इति ॥ अस्यार्थः—ब्रह्मचारीब्रूते—अहम् ‘अग्नये’ ‘समिधम्’ उक्तलक्षणम् ।


( १ ) आचार्य्यश्च कर्मशेषं समापयेत् । अत्र चन्द्रकान्तभाष्ये हेतुरुक्तः । “परतोब्र- ह्मचारिण एव कर्मोपदेशाद्विदानीमाचार्यकर्मणोऽवसानावगते”रिति । अतः परञ्चाग्रिम- सूत्रमवतारयंस्तत्रैवाह-अवसितमुपनयनकर्म, प्रासङ्गिकमिदानीं ब्रह्मचारिणः कर्त्तव्य- मनुवर्त्तामहे-स खल्वयं ब्रह्मचारी-”त्यादि ॥ ( २ ) अर्थजात इति पूर्व्वव्याख्यातृभिरुक्तन्तु “जातिर्जातञ्च सामान्यमि”त्यभिधा- नविरुद्धं प्रतिभाति । अर्थशब्दोऽत्र वस्तुवचनः “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु” इत्यमरात् । “यावदवधारणे” ( पा० २।१।८ ) इत्यव्ययीभावः समास इति च पूर्व्वैर्व्या- ख्यातं, वस्तुतस्तु प्रयोजनवचनत्वेऽपि न क्षतिः । यावता गुरोः प्रयोजनन्तावत्तस्मै निवे- दनीयमकपटवृत्त्या । अवशिष्टञ्च “भुङ्क्ष्वे”-ति तेनाभ्यनुज्ञातं स्वयममक्षयेत्तथालब्धमिति तदर्थः । अत्र नान्ययीभावः किन्तु तृतीयासमासः । अत्र “यावदन्नममायये”ति पाठः कुल्लूकेन धृतः । व्याख्यातश्च तद्भैक्ष्यं बहुभ्य आहृत्य यावदन्नं तृप्तिमात्रोचितं गुरवे निवेद्य-निवेदनङ्कृत्वा अमायया न कदन्नेन सदन्नं प्रच्छाद्येवमेतद्गुरुर्ग्रहीष्यतीत्यादि- मायाव्यतिरेकेण तदनुज्ञात आचमनं कृत्वा शुचिः सम्भुञ्जीत प्राङ्मुख इति ॥ ( ३ ) निवेदनफलन्तु हितमितपथ्यालोचनं, येनास्य ब्रह्म

२४४ उपनयनावधिः। [ २ प्रपाठके- ‘आहार्षम्’ आहृतवान्। किम्भूताय? ‘बृहते’ महते ( निघं० ३।३।४ ) ‘जात- वेदसे’ जातप्रज्ञानाय—जातधनाय(१) वा। इति परोक्षमुक्त्वा प्रत्यक्षमाह—हे ‘अग्ने!’ ‘यथा त्वम्’ अनया मदाहृतया ‘समिधा’ ‘समिध्यसि’(२) दीप्यसे। ‘ए- वमहम्’ ‘आयुषा’ जीवितकालेन(३)। ‘मेधया’ धारणावत्या बुद्ध्या ‘वर्चसा’ तेजसा(४) ‘प्रजया’ पुत्रपौत्रादिरूपया सन्तत्या(५)। ‘पशुभिः’ गवादिभिः ‘ब्रह्मवर्चसेन’ ब्राह्मणतेजसा(६) ‘धनेन’ व्रीहियवादिना ‘समेधिषीय’ वृद्धि- माप्नुयाम् इति॥ ३२॥ अत्र मनुः-- “अग्न्याधानं भैक्षचर्यामधः शय्यां गुरोर्हितम्। आसमावर्त्तनात्कुर्यात्कृतोपनयन