गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 268, कुल 332 में से
संदर्भ में पढ़ेंभ्यः(१) । 'बलम्' वीर्यम् 'आहरन्ती' आनयन्ती । ( आहृत्य स्थापयन्ती ) स्वसा' स्वसृवद्धिता(२) । 'देवी' दीप्तिमती । अत एव 'सुभगा' सौभाग्यप्रदा । सर्वलोककाम्येति गुणविष्णुः ॥ २७ ॥ हे 'भद्रे !' शोभने ! 'मेखले !' या त्वं ब्रह्मचारिसम्बन्धिनः 'ऋतस्य' सत्यस्य यज्ञस्य(३) वा 'गोप्त्री' पालयित्री 'तपसः' ब्रह्मचर्यस्य 'परस्वी' सर्व- स्वभूता(४) 'रक्षः' रक्षांसि । जातावेकवचनम् । 'घ्नती' विनाशयन्ती । अराती:(५) शत्रून् । 'सहमानाः' (६)अभिभवन्ती । सा एवम्भूतात्वं 'मा' मां 'समन्तम्' समन्तात्(७) ( सर्वतः ) 'अभिपर्येहि' आभिमुख्येनागच्छ(८) । वेष्टयेत्यर्थः। यथा 'ते' तव 'धर्त्तारः' कटौ धारयितारोवयम् केनचित् 'मा रिषाम' (९)मा हिंसिष्महि । ( हिंसिता मा भवेम ) इति ॥ २८ ॥ अथ कौपीनपरिधानं तज्ञोपवीतधारणञ्च । तत्र प्रथममाचम्य-ब्राह्मणेभ्यः सपूगयज्ञोपवीतभाण्डाष्टतयदानमाजानिकाचारात् अत्र मानमुपनिषत्सु “अष्टौ ब्राह्मणान्ग्राहयित्वा विद्या सिद्धिर्भवति” त्यसनुदाम्नायते । तदेतदत्रापि ब्राह्म- णेभ्यः पूर्वम्प्रदाय विद्यासिद्ध्यै यज्ञोपवीतधारणमिति मम प्रतिभाति । एतच्च यज्ञोपवीतधारणं सूत्रानुक्तकालमपि(१०) इदानीमेव । अन्यत्र तथादर्शनात् । तथाच मेखलाबन्धनानन्तरं जातकर्णः—“पवित्रञ्चास्मै प्रयच्छति । ( १ ) षष्ठ्यर्थे चतुर्थी ( पा० २।३।६२ ) । ( २ ) परार्थे प्रयुज्यमानाः शब्दाः सादृश्यङ्गमयन्तीति गुणविष्णुः । ( ३ ) तथाच निरुक्तम् “ऋतमिति सत्यं वा यज्ञं वे”ति ( ४।१९ ) । ( ४ ) “गौरादित्वात्” ( पा० ४।१।४१ ) ङीष् ॥ ( ५ ) तथाच श्रुतिः “या नोदूरे तदितो या अरातयोऽभिसन्ति जम्भया ता अन- नसः” ( ऋ० सं० २।६।३० ) इति । अत्रारातयः शात्रवीः सेना इति दुर्गाचार्याः । कोशे तु पुल्लिङ्गोऽपि “रिपौ वैरियसत्त्वारि…………अभिघातिपराशतिप्रत्यर्थिपरिपन्थिन” इत्यमरः । ( ६ ) “षहमर्षणे” ( भ्वा० आ० ) लटः शानच् । मर्षणं क्षमा अभिभवनचेति ( सि० कौ० ) दीक्षितचरणाः प्राहुः । ( ७ ) त्सोऽत्राऽमादेशः । ( पा०