गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 269, कुल 332 में से
संदर्भ में पढ़ें२३८ उपनयनविधिः। [ २ प्रपाठके “यज्ञोपवीतम्परमं पवित्रमिति” इति । अपि च-“सदा मन्त्रवदाधार्यमुपवीत- न्द्विजातिभिः”।ति देवलवाक्याद् द्विजत्वसम्पत्त्यनन्तरमेवोपवीतधारणमायाति। अत्राङ्मर्यादार्थः । मर्यादयेति तदर्थः । मर्यादा तूक्ता प्राक् (२।२।१-३) द्विज- त्वञ्च मेखलाबन्धनादनन्तरमेव । तथाच याज्ञवल्क्यः— “मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजातयः ॥” इति । अत्रोक्तदेवलवचने मनौ च— “मेखलामजिनन्दण्डमुपवीतंङ्कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥” इत्येवं समन्त्रकत्वन्तद्ग्रहणे स्मर्यते । तदत्रानुपदेशा(१)च्छाखान्तरोक्त- मन्त्रमुपादद्यात् । यथा- “यज्ञोपवीतमसि यज्ञस्य त्वोपवीतेनोपनह्यामी”ति ! अस्यार्थः । हे उपवीत त्वं ‘यज्ञोपवीतम्’ तन्नाम ‘असि’ भवसि । अतः ‘त्वा’ त्वाम् ‘यज्ञस्य’ यज्ञसम्बन्धिना । तृतीयार्थे षष्ठी ( पा० ३।२।८५ ) ‘उपवीतेन’ ब्रह्म(२)सूत्रेण ‘उपनह्यामि’ परिदधामि । यज्ञोपवीतलक्षणमुक्तमधस्तात् । ( १।२।१-३ ) अथोक्तम् ( २।१०।९ ) अजिनमपोदानीमेव । “मित्रस्य चक्षुरि”ति तैत्ति- रीयशाखीयमन्त्रेण परिधापयेत् । तदेतत्सर्वम् “यन्नाम्नातं स्वशाखायामि”- ति कातीयपरिभाषणाद्बोध्यम् । तथाचाश्वलायनः “यज्ञोपवीतमजिनञ्चे”ति । एवञ्च द्रव्यकथनसूत्रक्रमेण नैतद्धारणम् । तत्र क्र