गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 267, कुल 332 में से
संदर्भ में पढ़ेंरिक्तः (पा० ३।४।१२) भूगतदक्षिणजानुः । आचार्याभिमुखः । प्रत्यङ्मुखः । उदगग्रेषु दर्भेषूपविशति । उदङ्-अग्नेरुत्तरत एव ॥ ३६ ॥ अथैनं त्रिः प्रदक्षिणं मुञ्जमेखलां परिहरन् वाचयति- "यं दुरु- त्परिबाधमाने-"ति । "ऋतस्य गोप्त्रीति च ॥३७॥ ( मं० ब्रा० १।६।२७-२८ ) अथ-अनन्तरमेव । उपविष्टमेव । एनं-माणवकं परिहरन्-परिवेष्टयन् कटिप्रदेशे प्रादाक्षिण्येन त्रिवेष्टयन्(१)। परिवेष्टनावृत्तावपि मन्त्रवाचनं सकृदेव "एकद्रव्ये कर्मावृत्तौ सकृन्मन्त्रवाचनमि"-त्युपनिदर्शनान् । मन्त्रौ यथा- "इयन्दुरुक्तात्परिबाधमाना वर्णं पवित्रं पुनतीम आगात् । प्राणापानाभ्यां बलमाहरन्ती स्वसा देवी सुभगा मेखलेयम् ॥३७॥ ऋतस्य गोप्त्री तपसः परस्वी घ्नती रक्षः सहमाना अरातीः । सा मा समन्तमभिपर्येहि भद्रे ! धर्त्तारस्ते मेखले मा रिषाम" ॥२८॥ इति । अनयोरर्थः-ब्रह्मचारी ब्रूते-'इयं' प्रत्यक्षा मेखला मौञ्जी(२) 'नः' अस्मान् । 'आगात्' आगता । किङ्कुर्वती ? 'दुरुक्तात्' असम्बद्धप्रलापादितः बाल्यकृतात् 'परि' सर्वतो 'बाधमाना' निवारयन्ती । 'पवित्रम्' अपि 'वर्णं' ब्राह्मणादिकं 'पुनती' द्विजत्वसम्पादनेन पावयन्ती । तथाच स्मृतिः-"मातुर्य- दग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात्" इति । पुनश्च प्राणापनाभ्यां' प्राणापा- ( १ ) अत्र 'मेखलां बध्नीते" ( पा० २।२।८।१० ) इत्यादि परशाखीयगृह्यसूत्र- व्याख्यायां हरिहरमिश्राः । "ततोमेखलाम्मौञ्जीयादिकां वक्ष्यमाणलक्षणां बध्नीते (आ- चार्यः) कटिप्रदेशे त्रिवृतां प्रवरसंख्याग्रन्थियुतां प्रादक्षिण्येन परिवेष्टयति । इयमित्यादि- मन्त्रेण माणवकपठितेन । ( मन्त्रलिङ्गात् ) एवं गदाधरभाष्येऽपि-तत अचार्य्योमाणवक- कट्यां मेखलां रसनां बध्नीते । अत्रैवं बन्धनम् । आचार्य्यस्त्रिगुणाम्मेखलामादाय माणव- कस्य वटोः कटिप्रदेशे प्रादक्षिण्येन त्रिवेष्टयति । तृतीये वेष्टने ग्रन्थयस्त्रयः पञ्च सप्त वा का- र्याः । तदुक्तम्- "त्रिवृता मेखला कार्या त्रिवारं स्यात्समावृता । तद्ग्रन्थयस्त्रयः कार्याः पञ्च वा सप्त वा पुनः॥" इति । अत्र प्रवरसंख्यायां नियमः । त्र्यार्षेयस्य ग्रन्थित्रयं, पञ्चा- र्षेयस्य पञ्च । सप्तार्षेयस्य सप्तेति गर्गपद्धतौ । वृद्धाचारोऽप्येवमेव । आचार्य्यकर्तृकं मेखलाबन्धनं, कुमारस्य मन्त्रपाठः इति वासुदेव-मुरारिमिश्र-जयराम-हरिहराः । इत्या- दि ॥ तदित्थं कटिशब्दस्य स्कन्धपरत्वं व्यवस्थापयन्तस्तदर्थं सुधा क्लिश्यन्तः प्रति- समाहिता वेदितव्याः । ( २ ) उपलक्षणमेषा यथावर्णं मौर्व्यादेः । मेखलेति कटिप्रदेशस्थाया रसनाया नाम तथाच हेमः "मेखलाऽद्रिनितम्बे स्याद्रशनाखड्गबन्धयोरि"ति । "स्त्री कट्यां मेखला काञ्ची'त्यमरश्च । स्त्री-स्त्रीलिङ्गाभिधायि । तथाच कटिबन्धनं मेखलेति सर्वसम्मतम्॥ तत्र तच्च सप्तेति समाख्यया सप्तहस्ता सा भवति माणवकहस्तेनेति बोध्यम् । तथाच स्मर- न्त्यपि-"मेखला सप्तहस्ता स्यात्" इति ।