गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 266, कुल 332 में से
संदर्भ में पढ़ेंसव्यमित्यत्रांसमित्यनुषज्यते । स्पष्टमन्यत् ॥ मन्त्रार्थोऽपि स्पष्ट एव ॥३२॥ अथैनँ सम्प्रेष्यति-“ब्रह्मचार्यस्यसावि-”ति ॥ ३३ ॥ ( मं० ब्रा० १।७।२५ ) अथेति पूर्वप्रकृतार्थम् । अथ पूर्वकृतमंसयोर्गृहीतमेवैनं माणवकं सम्प्रेष्यति समादिशत्याचार्यः । कि ? “ब्रह्मचार्यस्यसावि”ति । अस्यार्थः हे असौ ! माणवक ! इतः प्रभृति त्वं 'ब्रह्मचारी' तन्नामानुरूपकर्मा(१) ‘असि’ भवसि । अतोब्रह्मचर्यनियमं मधुमांसवर्जनादिकं त्वया आ ब्रह्मचर्यपरिसमाप्तेः पाल- नीयमिति ॥ ३३ ॥ अथापरमतिदिशति— समिधमाधेह्य-पोऽशान-कर्म्मकुरु-मा दिवा स्वाप्सीरिति ॥ ३४ ॥ ( मं० ब्रा० १।६।२६ ) यत्तु वक्ष्यति अस्तमिते समिधमादधातीति । तां समिधं सायं प्रातराधेहि। अग्नयेऽर्पय । यच्च श्रुतावभिहितं “तस्माद्वा-एतदन्नमशिष्यन्पुरस्ताच्चोपरिष्टा- च्चाद्भिः परिदधा(२)ति” इति । तदिदमादिशति “अपोऽशाने”ति । अप- उदकम् । अशान-भक्षय । भोजनात्पुरस्तादुपरिष्टाच्चेत्यर्थः । मन्त्रौ तु-शाखा- न्तरादुपादेयौ “अमृतोपस्तरणमसि स्वाहे”ति पुरस्तात् । “अमृताऽपिधान- मसि स्वाहे” त्युपरिष्टात् । अन्यच्च-यत्किञ्चिद्विदितं गुरुशुश्रूषादि कर्म्मत्त- त्कुरु । इत्यपर आदेशः । दिवा-दिवसे । मा स्वाप्सीः । शयनम्मा कार्षीरिति । गुरुणा ह्येवमादिष्टो ब्रह्मचारी सर्वत्रैव “बाढमि”ति “ओमि”ति वा ब्रूयात् । एवञ्चादेशमनुपालयेदाब्रह्मचर्य्यम् । तदाहकर्म्मप्रदीपः— “ब्रह्मचारी समादिष्टोगुरुणा वृतकर्म्मणि । बाढमोमिति वा ब्रूयात्तत्तथैवानुपालयेत् ॥” इति ॥ ३४ ॥ उदगग्नेरुत्सृप्य प्राङाचार्य उपविशत्युदगग्रेषु दर्भेषु ॥३५॥ उदक्-उत्तरस्यान्दिशि । प्राङ्-प्राङ्मुखः । एवमग्रेऽपि ॥ ३५॥ प्रत्यङ् माणवकोदक्षिणजान्वक्तोऽभिमुख आचार्य्यमुदगग्रे- ष्वेव दर्भेषु ॥ ३६ ॥ माणवकस्तु-दक्षिणजान्वक्तः । दक्षिणं जानु अक्तं भूमिगतं यस्य स तथाभूतः । “अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु” ( रु० प० ) गत्यर्थत्वात्क्त- ( १ ) ब्रह्मवेदस्तदध्ययनार्थं व्रतमपि लक्षणया ब्रह्मोच्यते । तच्चरत्यनुतिष्ठतीति ब्रह्मचारी । ताच्छील्यार्थे ( पा०३।२।७८ ) णिनिप्रत्ययः । उपधावृद्धिः ( पा०७।२।११६ ) सततकरणञ्च ताच्छील्यम् । ( २ ) परिधानमिहोपस्तरणमावरणञ्च मन्त्रलिङ्गादेव ।