गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 259, कुल 332 में से
संदर्भ में पढ़ेंकेशमूलपर्यन्त इति कस्यचिद्व्याख्यानन्तन्न तथासति ब्राह्मणक्षत्रिययोस्तस्य तुल्यपरिमाणत्वेन पृथगुपदेशानर्थक्यापत्तेरिति बोध्यम् । तथा— “ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः । अनुद्वेगकरा नॄणां सत्वचानाग्निदूषिताः ॥” इति । ऋजव इति—अम्रादन्यत्र । “यूपवक्रा” इति गौतमेन नताग्रत्वस्य विधानात् । अव्रणा अच्छिद्राः । सौम्यदर्शनाः । अतिस्थौल्यादिनाऽभयानकाः । अनुद्वेगकारा स्वरूपेणाभीषणा इति मुरारिः । अदुःखदाः परेषामघातुकाना- मिति वयम् ॥ ११ ॥ इदानीमुक्तानां वसनानां व्यवस्थामुपदिशति— क्षौमंꣳशाणं वा वसनं ब्राह्मणस्य, कार्पाशं क्षत्रियस्याऽऽविकं वैश्यस्य ॥ १२ ॥ ऋज्वर्थं सूत्रम् ॥ १२ ॥ एतेनैवेतराणि द्रव्याणि व्याख्यातानि ॥ १३ ॥ एतेनैवानुसारेण । इतराणि अजिन-वसन-दण्डाख्यानि । व्याख्यातानि त्रयाणां यथाक्रमेणोक्तानि ॥ तथाच-ऐणेयमजिनं, मौञ्जी रशना, पार्णोदण्डश्च ब्राह्मणस्य, रौरवमजिनं, काशी रशना, वैल्वोदण्डश्च क्षत्रियस्य, आजमजिनं, शाणी रशना, आश्वत्थोदण्डश्च वैश्यस्येति सिद्धम् ॥ १३ ॥ अलाभे वा सर्वाणि सर्वेषाम् ॥ १४ ॥ अलाभे—स्वस्वजात्युक्तवसनादीनामसम्पत्तौ । सर्वाणि क्षौमादीनि वस- नादीनि सर्वेषां भवन्ति यथालाभम् । अत एव वसिष्ठः “सर्वेषान्तान्तवमर- क्तम्” इति । अरक्तं विकृतरक्तरहितं, कौशुम्भन्तुप्रशस्तं, तथाच गौतमः “स- र्वेषां कार्पासमविकृतं, काषायमप्येके” इति ॥ १४ ॥ पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ १५ ॥ निगद्व्याख्यातमेतत् ॥ १५ ॥ “अग्ने व्रतपत” इति हुत्वा पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङाचार्योऽवतिष्ठते ॥ १६ ॥ ( मं० ब्रा० १।६।९—१३ ) “यथा पाणिग्रहणे तथा चूडाकरणे चोपनयने” (१।९।२८) इत्यतिदेशा- दुपनयनकर्म्मणः पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिश्चतस्र आहुतयो भवन्ति, तदाहुतिचतुष्टयं कृत्वा “अग्ने व्रतपत” इत्येवमादिभिः पञ्चभिर्म्मन्त्रैः [ अ- नादेशादाज्येन ] पञ्चाहुतीश्च हुत्वा आचार्यः पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङ्