गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 258, कुल 332 में से
संदर्भ में पढ़ेंइति । विकल्पः शक्त्यपेक्षया कुलकल्पापेक्षया वा ॥ ९ ॥ मुञ्ज-काश-तामुन्योरशनाः ॥ १० ॥ तमुनिः शणः । रशना मेखला । “रशना मेखला काञ्ची”त्यमरः । अन्यत्पूर्ववत् । मनुः— “मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ मुञ्जालाभे तु कर्त्तव्या कुशाश्मन्तकबल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥” इति । त्रिवृत् नवगुणीकृता त्रिवृतेति प्रथमान्तम् “आपश्चैव हलन्ता- नाम्” इति टाप् । एकेन ग्रन्थिनेत्यादीच्छया विकल्पः । उपलक्षणे तृतीया ( पा० २।३।२१ ) अत्र श्लक्ष्णा-मसृणस्पर्शा। मूर्वा-वल्लीविशेष. “दुग्ध (ध) मरुरि”ति प्रसिद्धा । तेन निर्मिता मौर्वी ज्या । [धनुर्गुणः ] तस्यैव सतो मेख- लायां विनियोगः । मुञ्जालाभे-मुञ्जाद्यभावे । अश्मन्तकः कुशसदृशतृणविशे- षः । बल्वजाः “शावय” इति प्रसिद्धाः । ग्रन्थौ प्रवरसाम्येन व्यवस्थितोविकल्प इति सुरारिमिश्राः (१) प्राहुः ॥ १० ॥ पार्ण-बैल्वा-ऽऽश्वत्था दण्डाः ॥ ११ ॥ पार्णः पालाशः “पलाशे किंशुकः पर्णोवातपोत” इत्यमरः । बिल्वाश्वत्थौ प्रसिद्धौ । पालाशादयः क्रमेण ब्राह्मणादीनान्दण्डाः प्रशस्ता इत्यर्थः । तथा च पारस्करः “पालाशो ब्राह्मणस्य दण्डो बैल्वो राजन्यस्यौदुम्बरो वैश्यस्य सर्वे वा सर्वेषाम्” । इति । एषामभावे सर्वेषां सर्वे यज्ञियाः । औदुम्बर इति कुल- कल्पभेदेन । स्मृतिः— “धारयेद्वैल्वपालाशौ दण्डौ केशान्तिकौ द्विजः । यज्ञार्हवृक्षजं वाऽथ सौम्यमव्रणमेव च ॥” इति । मनुः— “केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसम्मितो राज्ञः स्यान्नासासम्मितो विशः ॥” इति । केशस्य ललाटोर्ध्वकेशजन्मस्थानस्यान्तः केशान्तः। एवञ्चोर्ध्वस्थित- स्य पुरुषस्य भूमितस्तत्पर्यन्तपरिमाणंतो ब्राह्मणस्य दण्डः कार्यः । भ्रमध्य सम्मितो राज्ञः । नासाग्रसम्मितो वैश्यस्येत्यर्थः । यत्तु-केशान्तिकः कर्णसमीप- ( १ ) अत्र कुल्लूकभट्टः । अत्र च वाशब्दनिर्देशाद्ग्रन्थीनां न विप्रादिभिः क्रमेण सम्बन्धः । किन्तु सर्वत्र यथाकुलाचारं विकल्पः । ग्रन्थिभेदश्चायं मुख्यामुख्यापेक्षासम्भ- वाद्गृहीतव्यः ॥ इति ॥