गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 246, कुल 332 में से
संदर्भ में पढ़ें९ कण्डिका ] गोभिलगृह्यसूत्रे- २१५ अपः प्रकृतादुष्णोदककांस्यपात्रात् । आदाय गृहीत्वा कपुष्णिकाम् । मूर्ध्नो- भयतः केशान् । “कपुष्णिकाऽभितः केशा(१)मूर्द्धिन, पश्चात्कपुच्छलम्” इति- च्छन्दोगपरिशिष्टात् । उन्दति-उन्दयति-क्लेदयति “उन्दी क्लेदने” (रु० प०) अन्तर्भावितण्यर्थः । क्वचित्तथैव पाठः । अत्र करणमन्त्रमाह-आप इति । अस्यार्थः । वायुनाऽऽनीताः ‘आपः’ एनं कुमारम् ‘जीवसे’ जीवितुम् ( जीवना- यास्य ) “तुमर्थे सेऽसेनि”-( पा० ३।४।९ ) त्यादिनाऽसे प्रत्यया । “अव्य- यकृत्तोभावे” इति महाभाष्यानुशासनात् ॥ १२ ॥ “विष्णोर्दंष्ट्रोऽसी”त्यौदुम्बरं क्षुरं प्रेक्षतेऽादर्शं वा ॥ १३ ॥ ( मं० ब्रा० १।६।४ ) औदुम्बरं-ताम्रमयम् । “औदुम्बरम्भवेत्ताम्रं फलाद्यौ यज्ञशाखिनः” इत्य- जयः । प्रेक्षते-अवलोकयति ।। अवलोकयेदितिविधिरत्र (पा०३।४।७) लेडर्थः । एवमग्रेऽपि । मन्त्रार्थस्तु-हेक्षुर ! त्वं ‘विष्णोः’ ‘दंष्ट्रः’ दंष्ट्रा बृहद्दन्तः ‘असि’ भ- वसि ।। पुंस्त्वमार्षम् ॥ १३ ॥ “ओषधे त्रायस्वैनमि”-ति सप्त दर्भपिञ्जलीर्दक्षिणायां कपुष्णि- कायामभिशिरोग्रां निदधाति ॥ १४ ॥ ( मं० ब्रा० १।६।५ ) आसादितानामेकविंशतिदर्भपिञ्जलीनां ( सप्तशः पृथक् स्थापितानाम् । ) मध्यात् सप्त दर्भपिञ्जलीर्गृहीत्वा कुमारस्य दक्षिणायाम्(२) कपुष्णिकायाम् जू- टिकायाम् “ओषधे त्रायस्वैनम्” इति मन्त्रेण निदधाति-स्थापयेत् । क- थम् ? अभिशिरोग्राः । शिरसोऽभीत्यभिशिरः । अव्ययीभावः ( पा०२।१।१४ ) समासः । अग्राणि यासान्तान्तथाविधाः “कृत्वेति” शेषः । मन्त्रार्थस्तु-हे ‘ओष- धे !’ कुशतृण ! ( ओषध्यधिष्ठातृदेवते ! ) ‘एनं’ कुमारं ‘त्रायस्व’ रक्ष । “त्रैङ्पालने” ( भ्वा० आ० ) प्रार्थनायां लोट् इति ॥ ५ ॥ १४ ॥ ता वामेन पाणिना निगृह्य दक्षिणेन पाणिनाौदुम्बरं क्षुरं गृहीत्वाऽऽदर्शं वाऽभिनिदधाति “स्वधिते मैनँहिंसीरि”तिः॥१५॥ ( मं० ब्रा० १।६।६ ) ता दर्भपिञ्जलीर्दक्षिणकपुष्णिकाञ्च निगृह्य-सर्वतोभावेन गृहीत्वा अभि- निदधाति-संलग्नां धारयति । “स्वधिते मैनं हिं सीरि-”ति मन्त्रेण ।
( १ ) कं शिरः पुष्णाति । शीतातपादिभ्योरक्षणेनेति शेषः ॥ ( २ ) अत्र दक्षिणशब्दोभागं विशिनष्टीति न सर्वनामताऽस्य । एवमग्रे ( १९ सू०) उत्तरशब्दोऽपि न द्विवचन इति वक्ष्यते । तथाचामरः “वामे शरीरं सव्यं स्यादपसव्य- न्तु दक्षिणम्” इति ॥