गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 26, कुल 332 में से
संदर्भ में पढ़ें( ३४ ) अथ दशमी— १ गर्भाष्टमेषु ब्राह्मणमुपनयेत् ॥ २ गर्भैकादशेषु राजन्यम् ॥ ३ गर्भद्वादशेषु वैश्यम् ॥ ४ आषोडशाद्वर्षाद्ब्राह्मणस्यानतीतः कालोभवत्याद्वाविंशात्क्षत्रि- यस्याचतुर्विंक्षाद्वैश्यस्य ॥ ५ अत ऊर्ध्वं पतितसावित्रीका भवन्ति । ६ नैतानुपनयेयु र्नाध्यापयेयुन्नैभिर्विंवहेयुः ॥ ७ यदहरुपैष्यन्माणवकोभवति प्रग एवैनं तदहर्भोजयन्ति कुशली- कारयन्त्याप्लावयन्त्यलङ्कुर्वन्त्यहतेन वाससाऽऽच्छादयन्ति ॥ ८ क्षौमशाणकार्पासौर्णान्येषां वसनानि ॥ ९ ऐणेयरौरवाजान्याजिनानि ॥ १० मुञ्जकाशतामूर्व्यो रशनाः । ११ पार्णबैलवाश्वत्था दण्डाः ॥ १२ क्षौमᳵशाणं वा वसनं ब्राह्मणस्य, कार्पाशं क्षत्रियस्याऽऽविकं वै- श्यस्य ॥ १३ एतेनैवेतराणि द्रव्याणि व्याख्यातानि ॥ १४ अलाभे वा सर्वाणि सर्वेषाम् ॥ १५ पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ १६ “अग्ने व्रतपते” इति हुत्वा पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङाचार्योऽ- वतिष्ठते । १७ अन्तरेणाग्न्याचार्यौ माणवकोऽञ्जलिकृतोऽभिमुख आचार्यमुदग- ग्रेषु दर्भेषु ॥ १८ तस्य दक्षिणतोऽवस्थाय मन्त्रवान्ब्राह्मणोऽपामञ्जलिम्पूरयति ॥ १९ उपरिष्टाच्चाचार्यस्य । २० प्रेक्षमाणोजपत्या“गन्त्रा समगन्मही”ति ॥ २१ “ब्रह्मचर्यमागामि”ति वाचयति ॥ २२ “कोनामासी”ति नामधेयम्पृच्छति ॥ २३ अभिवादनीयनामधेयङ्कथयित्वा ॥ २४ देवताश्रयं वा नक्षत्राश्रयं वा ॥ २५ गोत्राश्रयमप्येके ॥ २६ उत्सृज्यापामञ्जलिमाचार्योदक्षिणेन पाणिनां दक्षिणं पाणिᳵसाङ्गुष्ठं गृह्णाति “देवस्य ते सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णोहस्ताभ्याᳵ-