गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 27, कुल 332 में से
संदर्भ में पढ़ें( २० ) हस्तं गृभ्णाम्यसावि"ति ॥ २७ अथैनं प्रदक्षिणमावर्त्तयति “सूर्यस्यावृतमन्वावर्त्तस्वासावि”ति ॥ २८ दक्षिणेन पाणिना दक्षिणमंसमन्ववमृश्यानन्तर्हितान्नाभिमभिमृशेत् “प्राणानां ग्रन्थिरसी”ति ॥ २९ उत्सृप्य नाभिदेशं “महुर” इति ॥ ३० उत्सृप्य हृदयदेशं “क्रुशन” इति ॥ ३१ दक्षिणेन पाणिना दक्षिणमंसमन्वालभ्य “प्रजापतये त्वा परिददा- म्यसावि”ति ॥ ३२ सव्येन सव्यं “देवायत्वा सवित्रे परिददाम्यसावि”ति ॥ ३३ अथैनं सम्प्रेष्यति “ब्रह्मचार्य्यस्यसावि-”ति ॥ ३४ “समिधमाधेह्यपोऽशान कर्म्म कुरु मा दिवा स्वाप्सीरि”ति ॥ ३५ उदगग्नेरुत्सृप्य प्राङाचार्य्य उपविशत्युदगग्रेषु दर्भेषु ॥ ३६ प्रत्यङ्ङ्माणवकोदक्षिणजान्वक्तोऽभिमुख आचार्य्य उदगग्रेष्वेव दर्भेषु ॥ ३७ अथैनं त्रिः प्रदक्षिणणं मुञ्जमेखलाम्परिहरन् वाचयति “इयं दुरुक्तात् परिवाधमाने-”ति “ऋतस्य गोप्त्री”-ति च ॥ ३८ अथोपसीद् “त्यधीहि भोः सावित्रीं मे भवाननुब्रवीत्वि-”ति ॥ ३९ तस्मा अन्वाह-पच्छो-ऽर्द्धर्चश ऋक्कृत्स्न इति ॥ ४० महाव्याहृतीश्च विहृता ओंकारान्ताः ॥ ४१ वार्क्षञ्चास्मै दण्डम्प्रयच्छन्वाचयति “सुश्रवः सुश्रवसं मा कुर्वि”ति ॥ ४२ अथ भैक्षञ्चरति ॥ ४३ मातरमेवाग्रे, द्वे चान्ये सुहृदौ, यावत्यो वा सन्निहिताः स्युः ॥ ४४ आचार्य्याय भैक्षन्निवेदयति ॥ ४५ तिष्ठत्यहः शेषं वाग्यतः ॥ ४६ अस्तमिते समिधमादधाति “अग्नये समिधमाहार्षम”-ति ॥ ४७ त्रिरात्रमक्षारलवणाशी भवति ॥ ४८ तस्यान्ते सावित्रश्चरुः ॥ ४९ यथार्थम् ॥ ५० गौर्दक्षिणा ॥ इति द्वि० प्र० दशमी कण्डिका ॥ १० ॥ इति द्वितीयः प्रपाठकः ॥ २ ॥