गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 28, कुल 332 में से
संदर्भ में पढ़ें( २१ ) ( अथसमावर्त्तनसूत्राणि ) अथ तृतीयप्रपाठकस्य चतुर्थी कण्डिका— १ ब्रह्मचारी वेदमधीत्य ॥ २ उपन्याहृत्य गुरवे ॥ ३ अनुज्ञातो दारान्कुर्वीत ॥ ४ असगोत्रान् ॥ ५ मातुरसपिण्डान् ॥ ६ नग्निका तु श्रेष्ठा ॥ ७ अथाऽऽप्लवनम् ॥ ८ उत्तरतः पश्चाद्वाऽऽचार्य्यकुलस्य परिवृतम्भवति ॥ ९ तत्र प्रागग्रेषु दर्भेषूङ्ङाचार्य उपविशति ॥ १० प्राङ् प्रह्वाचार्य्युदगग्रेषु दर्भेषु ॥ ११ शीतोष्णाभिराचार्य्योऽभिषिञ्चेत् ॥ १२ स्वयमिव तु ॥ १३ मन्त्रवर्णो भवति ॥ १४ “येऽश्वन्तरग्नयः प्रविष्टा” इत्यपामञ्जलिमवसिञ्चति ॥ १५ “यदपां घोरं यदपां क्रूरं यदपामशान्तमि”ति च ॥ १६ “यो रोचनस्तमिह गृह्णामी”त्यात्मानमभिषिञ्चति ॥ १७ “यशसे तेजस” इति च ॥ १८ “येन श्रियमकृणुतमि”-ति च ॥ १९ तूष्णीञ्चतुर्थम् ॥ २० उपोत्थायादित्यमुपतिष्ठते “उद्यन्भ्राजभृष्टिभि”—रित्येतत्प्रभृतिना मन्त्रेण ॥ २१ यथालिङ्गं वा विहरन् ॥ २२ चक्षुरसीत्यनुबध्नीयात् ॥ २३ मेखलामवमुञ्चत “उदुत्तमं वरुणपाशमि”ति ॥ २४ ब्राह्मणान्भोजयित्वा स्वयम्भुक्त्वा केशश्मश्रुलोमनखानि वापयीत शिखावर्ज्जम् ॥ २५ स्नात्वाऽलङ्कृत्याऽहते वाससी परिधाय स्रजमाबध्नीत “शीरसि मयि रमस्वे”ति ॥ २६ “नेत्र्यौ स्थो नयतम्मामि”—त्युपानहौ ॥ २७ “गन्धर्वोऽसी”ति वैणवदण्डं गृह्णाति ॥