गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
DevanagariHindipublished332 पृष्ठ
पृष्ठ 280, कुल 332 में से
संदर्भ में पढ़ेंपृष्ठ 280
४ कण्डिका ] गोभिलगृह्यसूत्रे- २४६
विभक्तिवचनातिक्रमात् । तस्माद्दारकरणेन सहास्य न सम्बन्धोऽपि तु- “एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । गौरीं वाप्युद्वहेद्भार्यां नीलं वा वृषमुत्सृजेत् ।” इति वचनाद्दारान्करिष्यता तावद्गौरी प्राप्तावेव यतनीयं, दातुस्तु नग्निका श्रेष्ठेति(१) सूत्रार्थः । तथाचवसिष्ठः-“तस्मान्नग्निका दातव्ये-”ति ॥ ६ ॥ अथाप्लवनम् ॥ ७ ॥ अथेत्या(२)नन्तर्यार्थम् । व्रतान्तबोधितैन्द्रस्थालीपाकादिकर्म्मानन्तरम् । ब्रह्मचारी आप्लवनम्-स्नानम् । “आप्लाव आप्लवः स्नानम्” इत्यमरात् । “कुर्यादि”-ति शेषः ॥ ७ ॥ तद्विधिविवक्षयेदमाह- उत्तरतः पुरस्ताद्वाऽऽचार्यकुलस्य परिवृतम्भवति ॥ ८ ॥
( १ ) अत्र चन्द्रकान्तः । न