गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 283, कुल 332 में से
संदर्भ में पढ़ेंविकृतिङ्गमयतीति तनुदुषिः(१) : 'इन्द्रियहाः' इन्द्रियाणि हन्तीति इन्द्रियहाः ॥ १ ॥ इति ॥ १४ ॥ “यदपां घोरं यदपां क्रूरं यदपामशान्तम्”ति च ॥१५॥ ( सं० ब्रा० १।७।२ ) अस्य “अति तत्सृजामी"-ति शेषः । 'अपां' सम्बन्धि 'यद्' 'घोरं' भया- नकम् । 'यन्' च 'अपां' सम्बन्धि । 'क्रूरम्' निष्ठुरम् । 'यन्' च 'अपां' सम्ब- न्धि 'अशान्तम्' रुजाकरम् 'तत्' अतिसृजामि । उत्सृजामीत्यर्थः ॥ २ ॥ इति । अनेनाप्यपामञ्जलिमवसिञ्चति । तस्मादत्रापि भूमावेवाञ्जलिपरित्याग इति कर्मेन्द्रियापद्घोरनुषङ्गार्थश्चकारः ॥ १५ ॥ “योरोचनस्तमिह गृह्णामि” इत्यात्मानमभिषिञ्चति ॥१६॥ ( मं० ब्रा० १।७।३ ) “योरोचन” इति मन्त्रेण ब्रह्मचारी आत्मानमभिषिञ्चति । अभिषिञ्चेत् । अभीति सर्वतोभावे । अयमभिषेकः “अङ्गानां शिरः प्रधानम्”ति शिरसि कर्त्तव्यः । “अव्यक्तं प्रधाना(२)मौ”ति न्यायादप्या(३)प्लावनमित्यधिका- राच्च । अस्य “तेनाहममामभिषिञ्चामि” इतिशेषः ॥ अस्यार्थः । घोरादिषु त्यक्तेषु । 'यो' ऽन्यो 'रोचनः' तदाख्यो ऽभिप्रीतिकरः(४) । 'तं' अहम् 'इह' स्थितम् । गृह्णामि । तथाच 'तेन' जलान्तर्वर्त्तिना रोचनेन 'अहं' 'माम्' आत्मानम् 'अभिषिञ्चामि' इति ॥ ३ ॥ किमर्थमित्युत्तरेणान्वितम् ॥ १६ ॥ “यशसे तेजस” इति च ॥ १७ ॥ ( सं० ब्रा० १।७।४ ) “यशसे” इत्यादिना मन्त्रेण च पूर्ववदात्मानमभिषिञ्चति । ब्रह्मचारी । प्रकृतानामपामञ्जलिना ॥ मन्त्रोयथा— “यशसे तेजसे ब्रह्मवर्चसाय बलायेन्द्रियाय वीर्यायान्नाद्याय रायस्पोषाय त्विष्ट्यै अपचित्यै” ॥ ४ ॥
( १ ) “इक्कॄष्यादिभ्यः” (पा० ३।३।१०८ वा०) इतीकप्रत्यये गुणाभावः । दलोपः पृषोदरादित्वात् ( पा० ६।३।१०९ ) ॥ ( २ ) सन्देहे हि प्रधानानुसरणं कर्त्तव्यमिति हि न्यायाशयः । ( ३ ) यद्यपि “स्नानञ्चतुर्भिः कलशैस्त्रिभिराप्लवनं स्मृतम्” इति कात्यायनेन परिभाषितन्तथापि स्नानमात्रं जहदजहल्लक्षणया भाष्यकृद्भिरत्राप्लवनं व्याख्यातम् । तथाच मन्त्रेण बोध्यमभिषेकस्तदेवाप्लवनापरपर्यायं स्नानं प्रधानकर्मेतिप्रतिपाद- यिष्यते ॥ ( ४ ) “रुचदीप्तावभिप्रीतौच” ( भ्वा० आ० ) नन्द्यादित्वाल्ल्युः (पा० ३।१।१३४) योरनः । ( पा० ७।१।१ ) ॥