भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 294, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 294

४ कण्डिका ] गोभिलगृह्यसूत्रे- २६३ र्होम् । (१)कथम्भूताम् ? ‘विराजम्’ विराजमानाम् । क्विबन्तमेतत् । ‘अन्न- श्वतदायमदनीयञ्चेतिकर्म्मधारयः । यद्वा-अन्नाद्याय-(२) अन्नादोद्भवाय सुखाय । ‘अधितिष्ठामि’ आक्रामामि ॥ २ ॥ इति ॥ २ ॥ कुत्र प्रतितिष्ठमानोजपेदित्यपेक्षायामाह- यत्रैनमर्हयिष्यन्तः स्युः ॥ ३ ॥ यत्र-यस्मिन्प्रदेशे । एनम् अर्हणीयम् । अर्हयिष्यन्तः। अर्हयितुमिच्छन्तः। अर्हणकर्त्तारः । उपस्थिताः । स्युर्भवेयुः । तत्रेत्यर्थः ॥ ३ ॥ यदावाऽर्हयेयुः ॥ ४ ॥ यदा यस्मिन्काले । अर्हयेयु-र्हणङ्कर्त्तुमारभेरन्नित्यर्थः । अत्र वाकारः समुच्चय इति मुरारि(३)मिश्राः ॥ ४ ॥ अथेदानीमर्हणाविधिविवक्षयेदमाह- विष्टरपाद्यार्घ्याचमनीयमधुपर्कानेकैकशस्त्रिर्वेदयरेन् ॥ ५ ॥ विष्टरः-पूर्वोक्तः । (४)“वृक्षासनयोर्विष्टरः” ( पा० ८।३।९३ ) इत्यासना- र्थे निपातितः । पाद्यं-(५) पादार्थमुदकम् । एवमर्घ्यम् । “पादार्घाभ्याञ्च”- (पा०५।४।२५)-ति तादर्थ्ये यत् प्रत्ययः । तदेतद्दधितण्डुलपुष्पयुक्तमुदकम् । (