गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 293, कुल 332 में से
संदर्भ में पढ़ें३६२ अर्हणाविधिः । [ ३ प्रपाठके स्थानमन्त्रमाह—"अर्हणे"ति । यथा “अर्हणा पुत्रवाससा धेनुर्भवद्य मे । सा नः पयस्वती दुहामुत्तरामुत्तरां समाम्” ॥ १ ॥ इति । अस्यार्थः 'य' (१) या 'इयं' अर्हणा (२) पूजा साधनभूता । 'पुत्र- वाससा' (३) पुत्रवासानुगामिनी । 'मे' मम । 'धेनुः' सर्वार्थसाधिनी(४) 'अ- भवत्' भवति । 'सा' 'पयस्वती' प्रशस्तपयः(५) । 'नः' 'अस्माकम् । “मनो- रथान्” इति शेषः(६) । उत्तरामुत्तरां 'समाम्'(७) उत्तरोत्तरवर्षं व्याप्य 'दुहाम्' दुग्धाम्(८) ॥ १ ॥ इति ॥ १ ॥ एवमर्हणीयेषूपतिष्ठमानेषु स खल्वयमर्हणीयः— “इदमहमिमां पद्मां विराजमन्नाद्यायाधितिष्ठामी”ति प्रतितिष्ठ- मानोजपेत् ॥ २ ॥ ( मं० ब्रा० २।८।२ ) प्रतितिष्ठमानः । ऊर्ध्वस्तिष्ठन् “इदमहमि”ति मन्त्रंजपेत् । अर्थाज्जपान्त- रमासन(९)उपविशेत् । अर्हणीय इत्यर्थात् । समस्तमन्त्राम्नानं स्वनामाध्या- हारप्रतिषेधार्थम् । “अकर्मकाच्च” ( पा० १।३।२६ ) इत्यात्मनेपदम् । मन्त्रा- र्थस्तु—अर्हणीयोवदति—'अहम्' 'इदम्' आसनम् । 'इमां' च 'पद्याम्' पादा- ( १ ) “ह्रस्वापोः संज्ञाच्छन्दसोर्बहुलम्” ( पा० ६।३।६३ ) इति ह्रस्वः । ( २ ) अर्ह्यते पूज्यतेऽनयेत्यर्थे “अर्हपूजायाम्” ( चु० उ० ) इत्यस्मात् “ण्यासश्र न्थोयुच्” ( पा० ३।३।१०७ ) इति करणे युच् । योरनादेशः ( पा० ७।१।१ ) स्त्रियां टाप् ( पा० ४।१।४ ) सुलोपः । पूजासम्पादिनी । ( ३ ) पुत्रवासम्प्रति सोऽतिगच्छतीति षद्लृधातोर्गत्यर्थात् (भ्वा०प०) “अन्येष्वपि दृश्यते” ( पा०३।२।१०१ ) इति डप्रत्यये टिलोपः । ( पा० ६।४।१४३ ) नवप्रसूतत्वात् । ( ४ ) दधातेर्धारणेपोषणार्थस्य ( जु०उ० ) “धेन्वादयश्च”—ति मुकुटेन निपातितः । ( ५ ) प्रशंसायामत्र मतुप् । ( पा० ५।२।९४ ) मस्यवत्वः । ( पा० ८।२।९ ) तथा चोक्तम् “भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुवादयः” इति । ( ६ ) “सम्बन्धिशब्दः सम्बन्धिनमाक्षिपति”ति न्यायात् । ( ७ ) अत्यन्तसंयोगे द्वितीया । ( पा० २।३।५ ) “संवत्सरोवत्सरोऽब्दोहायनोऽस्त्री- शरत्समाः” इत्यमरः । यद्यपि समाशब्दो नित्यबहुवचनान्ततया कोशे पठ्यते तथापि “समां समां विजायते” (पा० ५।३।२२) इति पाणिनिनैकवचनान्तोऽपि स्मृतः । श्रुतश्चा- त्राऽपि । ( ८ ) “लोपस्त आत्मने पदेषु” ( पा० ७।१।४१ ) इति तलोपः । ( ९ ) इदमासनमधितिष्ठामीतिमन्त्रलिङ्गात् । उपवेशनञ्चेदम्प्राङ्मुखत्वन्तत एव । साम्मुख्याय । विवाहाङ्गेऽर्हणे तथोक्तत्वाच्च । (२।१।१७) अत्र “पूज्यपूजकयोर्मध्ये प्राची”—ति तन्त्रान्तरसंवादात्प्रत्यङ्मुखता दातुर्न दोषायेत्यवगन्तव्यम् ।