गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 292, कुल 332 में से
संदर्भ में पढ़ेंततोरथमारुह्य— “आस्थाता ते जयतुजेत्वानी”—त्यातिष्ठति ॥ ३२ ॥ “आस्थाता ते” इतिमन्त्रचतुर्थपादेन र थमातिष्ठति-आरोहति(१) ॥३२॥ प्राङ्वोदङ्वा अभिप्रयाय प्रदक्षिणमावृत्योपयाति ॥ ३३ ॥ ततः प्राङ्-मुख-उदङ्मुखोवा । अभिप्रयाय-सर्वतोभावेन प्रकर्षेण गत्वा प्रदक्षिणं दक्षिणेन प्रगतं यथास्यात्तथा आवृत्य-आवर्तनङ्कृत्वा । उपयाति- उपयायादाचार्यसमीपमागच्छेत् ॥ ३३ ॥ उपयातायार्घ्यमिति कौहलीयाः ॥ ३४ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रस्यतृ० प्र० के चतुर्थी कण्डिका ॥३॥४॥ॐ॥ कौहलीयाः । शाखाविशेषाध्यायिनस्तु-रथादवरुह्याचार्यसमीपमुपयातायो- पागताय स्नातकाय अर्घ्यमर्हण-माचार्येण पित्रा वा कर्त्तव्यन्न तु पूर्वमिति मन्यन्ते ॥ ३४ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायाम्मुदुलाख्यायां मुकुन्दशर्म्मसङ्क- लितायां तृतीयस्य प्रपाठकस्य चतुर्थी कण्डिका ॥ ३ ॥ ४ ॥*॥ ( इति समावर्त्तनम् ) अथार्हणाविधिप्रदर्शनाय चतुर्थप्रपाठकस्य दशमी कण्डिका उत्तरतोगां बध्वोपतिष्ठेरन्—“अर्हणात्पुत्रवाससे”—ति ॥१॥ ( मं० ब्रा० १।८।१ ) अथ क्रमप्राप्तानामर्हणामन्त्राणां विनियोगं वक्तुमुपक्रमते-उत्तरत इति । उत्तरतः । उत्तरस्यान्दिशि । सार्वविभक्तिकस्तसिः (पा० ५।४।४४ वा०) अर्थात् अर्हणाप्रदेशस्य । “यत्रैनमर्हयिष्यन्तः स्युः” ( ४।१०।२ ) इत्युत्तरसूत्रात् । गां स्त्रीगवीम् । धेनुरित्यादिमन्त्रलिङ्गात् । उपतिष्ठेरन् । आराधयेयुः । उपात्ति- ष्ठतेर्देवपूजायामात्मनेपदविधानात् । ( पा० १।३।२५ वा० ) अत्रदेवेत्युपलक्षणं पूज्यमात्रस्येति गामेव । के ? येऽर्हयिष्यन्तः स्युः । तथा च सर्वैरेव गृहस्थितै- रर्हणीयार्हणार्थमप्रमत्तैर्भवितव्यमिति तात्पर्यार्थः । मुरारिमिश्रास्तु— अर्हणीयपरित्राणार्थमुपतिष्ठेरन्नित्युक्त्वा वाजसनेयश्रुतिन्दर्शयाम्बभूवुः- “यत्रचार्हन्नागच्छति सर्वे गृह्या इतरे तत्रतथेह परित्रातोभवति”—ति । गृह्या यजमानदायादाः । उपस्थानञ्चेदमूर्ध्वस्थितेनैव कार्यम् । आचारात् । न्यायाच्च । नह्यर्हणीये ऊर्ध्वस्थिते स्वयमुपविश्यत इति युज्यते । इति ॥ उप- ( १ ) रथे सम्यक्स्थितिः । आङत्र मर्यादायाम् ।