गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 30, कुल 332 में से
संदर्भ में पढ़ें१८ आचान्तोदकाय गौरिति नापितस्त्रिर्ब्रूयात् ॥ १९ "मुञ्च गां वरुणपाशाद्विषन्तम्मेऽभिधेहि-तन्नहमुपचोभयोरु- त्सृजगामत्तु तृणानि पिवतूदकम्” इति ब्रूयात् ॥ २० “माता रुद्राणामि"त्यनुमन्त्रयेत् ॥ २१ अन्यत्र यज्ञात् ॥ २२ कुरुतेत्यधियज्ञम् ॥ २३ षडर्ह्या भवन्ति ॥ २४ आचार्य्य ऋत्विक् स्नातको राजा विवाह्यः प्रियोऽतिथिरिति ॥ २५ परिसंवत्सरादर्हेयुः ॥ २६ पुनर्यज्ञविवाहयोश्च पुनर्यज्ञविवाहयोश्च ॥ इति च० प्र० दशमी कण्डिका ॥ १० ॥ * ॥ प्रपाठकश्चायं समाप्तस्तृतीयः ॥ ३ ॥ * ॥ (अथ संस्कारकुशण्डिकापरिशिष्टसूत्राणिः) चतुर्थप्रपाठकेपञ्चमी कण्डिका— १ काम्येष्वत ऊर्ध्वम् ॥ २ पूर्वेषुचैके ॥ ३ पश्चादग्नेर्भूमान्यञ्चौपाणीप्रतिष्ठाप्ये-“दम्भुमेर्भजामह" इति ॥ ४ वस्त्वन्तरात्रौ धनमिति दिवा ॥ ५ “इमंस्तोममि"ति तृचेनपरिसमूहेत् ॥ ६ वैरूपाक्षः पुरस्ताद्धोमानाम् ॥ ७ काम्येषु च प्रपदः ॥ ८ "तपश्चतेजश्चे"-ति जपित्वा प्राणानायम्यार्थमना वैरूपाक्षमारेभ्यो- च्छ्वसेत् ॥ इति गोभिलगृह्यसूत्रे चतुर्थ प्र०प०मकण्डिकायामादितोवसुसूत्राणि॥*॥ अथाभ्युदयिकश्राद्धसूत्राणि— चतुर्थी कण्डिका— अथाभ्युदयिके श्राद्धे युग्मानांशयेत्प्रदक्षिणमुपचार ऋजवोदर्भा य- वस्तिलार्थः । सम्पन्नमिति तृप्ति प्रश्नोदधिवदराक्षतमिश्रान्पिण्डान्नान्दी- मुखाः पितरः प्रीयन्तामिति वा चयेदिति पितृभ्यः पितामहेभ्यः प्रपिता- महेभ्यो मातामहेभ्यः प्रमातामहेभ्योवृद्धप्रमातामहेभ्यः स्वाहोच्यतामि- त्यस्तुस्वाहेत्युक्ते नस्वधाम्प्रयुञ्जीत ॥ ४-१-१० ॥ इति ॥