गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 301, कुल 332 में से
संदर्भ में पढ़ें२४० अर्हणाविधिः । [ ४ प्रपाठके तीकैरेव पानमवगम्यते । “श्रीर्भवाऽसी”-ति खल्वस्मच्छाखायाम्मन्त्रपाठः । अतस्तत्रैव होरिलपद्धतेरुक्तिर्योजनीया। तत्र प्रमाणञ्च— “यशसोयशोऽसीति त्रि-स्तूष्णी बहुचतुर्थकम् । कनिष्ठादिभिरङ्गुष्ठयोगेन तिसृभिः क्रमात् ॥ मधुपर्कप्रयोगेतु पाशने विधिरिष्यते ॥” इति परिशिष्टान्तरवचनमिति बोध्यम् ॥ १५ ॥ तूष्णीञ्चतुर्थम् ॥ १६ ॥ मधुपर्कस्य पिबेत् ॥ १६ ॥ भूयएवाभिपीय शेषं ब्राह्मणाय दद्यात् ॥ १७ ॥ भूय. । पुनरपि । एवकारकरणात्तूष्णीमेव । अभिपीय आभिमुख्येन पीत्वा शेषमवशिष्टम् । ब्राह्मणायेति । ब्राह्मणपदं पुत्रादिपरम्। “नोच्छिष्टं कस्यचिद् दद्याद् न्यत्र जायापुत्रशिष्येभ्यः” इति स्मरणात् । “उच्छिष्टमगुरोर्भोज्यम्”-ति वसि ष्ठवचनाच्च । तदभावे पुनरब्राह्मणायापि दद्यात् । तच्चाद्भिः प्रोक्ष्येतिविशेषः । तथा च द्राह्मायणसूत्रम् “तदभावेऽद्भिः संप्रोक्ष्य-(१)ब्राह्मणाये”-(१।२।२१। ति । लाट्यायनोऽप्येवमेव । ( १।३।११ ) सर्वोभावे “प्राग्वाऽसञ्चरे निनये दिति पारस्करीयेव गतिरन्यशाखीयाऽप्यविरोधिनीति । वीरपद्धतिरप्येव मेव । “मधुपर्कशेषमसञ्च(२)रदेशे धारयेदि”ति ॥ १६ ॥ आचान्तोदकाय गौरितिनापितस्त्रिर्ब्रूयात् ॥ १८ ॥ अत्र सप्तम्यर्थे चतुर्थी । अर्हणीये कृताचमने सति । यद्वा तादर्थ्ये चतु र्थी । यथा स शृणोति तथेति ( तदर्थम् ) अनेनोच्चैस्त्वं वचनस्य व्यक्तम् । क्रियाग्रहणाद्वा चतुर्थी ( पा० १।४।३२ वा० ) मधुपर्कभक्षणेनोच्छिष्टतापहत्या आचमनं विधीयते नचानेन ( भोजनेन ) भुक्त्वा कर्म्माचरणदोष इत्युक्तमध- स्तात् ( २।३।१७ ) ॥ १८ ॥ नापितेन त्रिर्गौरित्युक्ते खल्वयमर्हणीयस्तमेव नापितमुद्दिश्य— “मुञ्च गां वरुणपाशाद्द्विषन्तं मेऽभिधेही”ति । तज्जह्यमुष्यचोभयोरुत्सृज गामत्तु तृणानि पिबत्त्वदकम्”-तिब्रूयात् १८ ( मं ब्रा २।८।१२) “मुञ्चगामि”ति मन्त्रं ब्रूयात् । मन्त्रार्थस्तु-अर्हणीयोनापितं वदति-एतां
( १ ) अत्र शूद्रवर्जमिति तद्भाष्यात्क्षत्रियवैश्ययोरन्यतरायेति प्रतीयते । युक्तञ्चैतत् । ‘नञिवयुक्तमन्यसदृशाधिकरणे, तथाह्यर्थगतिः’ इतिपाणिनीयपरिभाषणात् । महाभाष्य ऽपि “नह्यब्राह्मणमानयेत्युक्ते लोष्टमानीयकृतीभवति”-त्युक्तत्वेन तद्भिन्नस्य तत्सदृशस्यैव ग्रहणम्भवतीति ॥ ( २ ) जनसञ्चारवर्जिते ॥