गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 302, कुल 332 में से
संदर्भ में पढ़ें१० कण्डिका ] गोभिलगृह्यसूत्रे- २०७ ‘गां’ ‘वरुणपाशात्’ त्रिशिखबन्धनात् ‘मुञ्च’ मोचय। ततश्च ‘उत्सृज’ विसर्जय। सेयं विसृष्टा सती ‘तृणानि’ घासान् ‘अत्तु’ भक्षयतु। ‘उदकं च’ ‘पिवतु’ एवं नापितमुक्त्वाऽर्हणीयामाह—हे अर्हणीये! (१) (पूजनीये!) एवम्मोचिता त्वम् ‘मे’ ममार्चनीयस्य । ‘अमुष्य’ अर्हयितुः ‘च’ ‘उभयोः’ ‘द्विषन्तं’ द्वेष्टारं तं तवाऽऽनेतारम् ‘अभिधेहि’ बधान । (२) ‘जहि’ विनाशय च ॥ १३ ॥ इति । अत्राऽमुष्येतिपदस्थाने प्रकृतत्वादहर्हयितुर्यजमानस्य नाम गृह्णीयात् । अहः पदस्थाने नामादेशस्याचार्यसम्मतैः कर्मप्रदीपे कात्यायनेनोक्तत्वात् । तथाच छ- न्दोगगृह्यान्तरमपि-“सञ्चोदितामनुमन्त्रयते मुञ्च गामित्यमुष्य चेत्यर्हयितुर्ना- मब्रूयादि”-तिचन्द्रकान्तः । समस्तमन्त्रान्तांश्च तञ्जह्यामुष्येतिपदयोर्म्मध्ये मम देवदत्तस्य चैवमध्याहारशङ्कानिवृत्त्यर्थम् ॥ मन्त्रमध्ये इतिकारकरणं पूर्व- पदानां यथावस्थितानामेव पाठार्थम् । इतिसुरारिमिश्राः । अतएव (३)तमिति पदे नोहः। तस्येतिकारात्प्राक्तनेन द्विषन्तमित्यनेन सम्बन्धादिति च चन्द्रकान्तः।९ “माता रुद्राणामि”-त्यनुमन्त्रयेत् ॥ २० ॥ ( मंत्रा० २।८।१४ ) गामित्यनुवर्त्तते । अनुमन्त्रणमिहालोचनम् । तथचगृह्यासङ्ग्रहः— ‘’स्पृशन्ननामिकाग्रेण क्वचिदालोकयन्नपि । आमन्त्रणीये सर्वत्र सदैवमनुमन्त्रयेत् ॥ ” इति । मन्त्रोयथा “माता रुद्राणां दुहिता वसूनां स्वसाऽऽदित्यानाममृतस्य नाभिः। प्र णु वोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ट”।।१४।।इति। अस्यार्थः—येयमहर्हणार्थ-( मालम्भननिमित्त- ) ज्ञैरानीता सा ‘रुद्राणां’ ‘माता’ मातृवन्मान्या ‘वसूनां’ देवविशेषाणां ‘दुहिता’ दुहितृवत्पाल्या ‘आदि- त्यानां ‘स्वसा’ स्वसृवदनुकम्प्या ‘अमृतस्य’ दुग्धदध्यादेः ‘नाभिः’ उत्पत्तिस्थान- म्। अतएताम् ‘गाम्’ ‘अनागाम्’ (४) सर्वथाऽनपराधिनम्। अतएव ‘अदितिम्’ ( १ ) अत्रार्हणसाधनभूते इत्यर्थः । “अर्हणापुत्रवा ऽसे”ति पूर्वोपन्यस्त श्रुतौ तथै- वार्थस्यावगतेः । यद्यपि कृत्यप्रत्ययो भावकर्म्मणोरेव विहितस्तथापि “कृत्यल्युटोबहुलम्” ( पा० ३।३।११३ ) इति बहुलग्रहणादत्स्नानीयञ्चूर्णमिति वदिहकरणेऽनीयर् ॥ ( २ ) अत्राभिपूर्वो दधाति र्बन्धने चुरादाविदन्तोऽप्याख्यातः ॥ ( ३ ) वस्तुतस्तु ( सूत्रे ) इतिकारो यथास्थितस्वरूपपरामर्शार्थको मध्यमणिन्या- येनोभयोरपि सम्बन्धन्नधिकृतस्वरूपं परामृशति । वीरपद्धत्यादिष्वेवमेव पाठात् । गृह्या- न्तरवचनन्तु शाखान्तरविषयम् । भवदेवभट्ट-भट्टनारायणादयस्तु-अत्रपठ्यमानमन्त्रका- ण्डे “इति” पदं न पठ्यते। केवलमाचार्येणैवोक्तमर्थम्प्रतिपिपादयिषुणा प्रक्षिप्तन्तदित्याहुः॥ ( ४ ) “ये सान्तास्तेऽदन्ताः” इतिन्यायेन “आगोऽपराधं” इत्यभिधाने सान्तोऽद- न्तश्च लभ्यते । तेनात्र बहुव्रीहिः ॥