भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 323, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 323

१६२ आभ्युदयिक-(नान्दी) श्राद्धविधिः । [ ४र्थ खण्डम्-

सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृही ॥” इत्यादिविष्णुपुराणादिवचने भविष्यपुराणोक्तातिरिक्ते कन्यापुत्रविवाहा- द्वावपि तन्नैमित्तिकमेव । निमित्तसप्तमीश्रवणात् । एतेष्वेवप्रधानेष्वित्युक्त्याऽन्यत्र नैमित्तिकमिति प्रतीतेश्च । इत्थञ्चाकृतसपिण्डनस्य ज्येष्ठस्यापि कन्यापुत्रविवा- हेऽस्त्येव । आभ्युदयिकस्य विवाहानङ्गत्वेन तदकरणेऽपि वैगुण्यविरहात् । अनधिकारे नैमित्तिकाकरणे विहिताकरणदोषोऽपि नेति बोध्यम् ॥ एवं पितरि देशान्तरस्थे पुत्रविवाहरूपस्याभ्युदयिकनिमित्तस्याज्ञानेन श्राद्धाकरणेऽपि न विवाहवैगुण्यं, न वा नैमित्तिकाकरणात्प्रत्यवायः । निमित्त- ताज्ञानेनानधिकारात् । अधिकारिण एवाकरणे प्रत्यवाया