भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 324, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 324

“विवाहे पुत्रकस्यचे”ति ब्रह्मपुराणमपि प्रथमविवाहपरमेव द्रष्टव्यम् । तद्भा- वेत्विति । तद्भावे संस्कार्यपितुर(१)भावे । तेषां-पितॄणाङ्कृते दाने प्राप्ते-त- त्क्रमात् । संस्कार्यक्रमादित्यर्थः । तथा च संस्करणीयः संस्करणीया वा यथा करो ' त तथा संस्काराधिकारिणाऽभ्युदयिकङ्कर्त्तव्यमिति कल्पितोऽर्थः । इत्थञ्च मातामहादयोऽपि संस्कार्यस्यैवेतिलब्धम् ।(२) यत्तु—तत्क्रमादित्यस्य संस्कार्यपितृक्रमादित्यर्थ इति । तन्न । तु शब्दप्रति- पाद्यपूर्वोक्तव्यवच्छेदानुपपत्तेः । “स्वपितृभ्यः पितादद्यादि”-त्यनेनैव तल्लाभे “तद्भावे तु तत्क्रमादि”ति चतुर्थचरणवैयर्थ्यापत्तेश्चेति सकलनिबन्धसि- द्धान्त इति दिक् । तथाच पितरि जीवत्यन्यः संस्कर्त्ता संस्करणीयपितृक्रमेणैवश्राद्धङ्कुर्यात् । “अष्टौ संस्कारकर्म्माणि गर्भाधानमिवस्वयम् । पिता कुर्यात्तदन्यो वा तस्याभावे तु तत्क्रमात् ॥” इति वचनात् । वाकारस्वरसेन तस्य पितृवत्कर्त्तव्यप्रतीतेः । यथा गर्भा- धानं स्वयमेव कुर्यात्तथा स तदन्यो वा संस्काराष्टकं कुर्यादित्यर्थः । शातातपः—“नानिष्ट्वा तु पितॄन् श्राद्धे कर्म्मवैदिकमारभेत्” इति । अत्र पितृपदं श्राद्धार्हपितृपरम् । न तु सम्बन्धिशब्दत्वेन स्वपितृपरम् कत्र्रन्तरेण संस्कार्यपितामहादिश्राद्धकरणप्रसङ्गात् । नचेष्टापत्तिः । शिष्टाचार- विरोधात् । “तद्भावे तु तत्क्रमादि”तिविधिविरोधाच्च । कर्म्मपदञ्च ऋष्यन्त- रोक्तविशेषविषयकं बोध्यमिति नातिप्रसङ्गः । इति ॥ मातृकापूजाम्भ्युदयिकापवादमाह कात्यायनः— “असकृद्यानि कर्म्माणि क्रियन्ते कर्म्मकारिणा । प्रतिप्रयोगं नैव स्युर्मातरःश्राद्धमेव च ॥” इति । यानि कर्म्माणि-श्रावण्याग्रहायण्यादीनि । असकृद्-वारम्वारम् । आहि- ताग्निना क्रियन्ते । तेषु प्रथमप्रयोग एव मातृकापूजाम्भ्युदयिके भवतः । न तु प्रतिप्रयोगमित्यर्थः । तथा—“आधाने होमयोश्चैव वैश्वदेवे तथैव च । बलिकर्म्मणि दर्शे च पौर्णमासे तथैव च ॥ नवयज्ञे च यज्ञज्ञा वदन्त्येवं महर्षयः । एकमेव भवेच्छ्राद्धमेतेषु न पृथक्पृथक् ॥” इति ।


( १ ) अभावोऽत्र जीवतः कर्म्मकर्तृत्वस्य । मरणञ्च । तत्र जीवतः पितॄणां कृते पितृसोदरेणाऽपि तत्प्रतिनिधिना तत्कर्म्मकरणे—माणवकपितृपितेत्यादिरूपेणैवाभ्युद- यिकं कार्यम् । मरणपक्षेतु माणकपितेत्येवमेवेत्युभयथाप्ययं तत्क्रमशब्दार्थः । किन्तु यो जीवितन्तं परित्यज्येतिसर्वसम्मतः पन्थाः । ( २ ) तथाचाहुः—“पितरोयस्यपूज्यन्ते तस्यमातामहादयः” इति ।

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक) · पृष्ठ 324, कुल 332 में से · BharatKosha