भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 325, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 325

आधाने—अग्न्याधाने । होमयोः सायं प्रातर्होमयोः । नवयज्ञ आग्रयणे- ष्टिः । एतेषु आधानादिषु प्रतिकर्म्म न कार्यं, किन्त्वाधानादेरादौ कृते सर्वेष्वेव कृतं स्यादित्यर्थः । तथा—"नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते । न सोष्यन्तीजातकर्मप्रोषितागतकर्मसु ॥" इति ॥ अष्टकासु—तिसृषु(१) । श्राद्धे-पिण्डपितृयज्ञे । सोष्यन्त्याम्-आसन्न- प्रसवायाः सुखप्रसवनिमित्तमनुष्ठेये सोष्यन्तीहोमे । जातकर्मणि-विप्रकर्षा- दिना त्वज्ञानवशात्कालान्तरे क्रियमाणे । न तु तत्काल एव क्रियमाणेऽपि । तत्र पुत्रजन्मनिमित्तकस्य विहितत्वेन निषेधानर्थक्यात् । प्रोषितागतकर्मणि । “विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्यां पाणिभ्यां मूर्द्धानं परिगृह्य जपेत्” ( गो० गृ० २।८।८१ ) इत्यादिना विहिते प्रवासादागतस्य पितुः पुत्रमूर्द्धादिस्पर्शरूपे च न श्राद्धमित्यर्थः । तथा—"विवाहादिः कर्मगणो य उक्तो गर्भाधानं शुश्रुम यस्यचान्ते । विवाहादावेकमेवात्र कुर्याच्छ्राद्धं नादौ कर्म्मणः कर्म्मणः स्यात् ॥ इति । अन्ते परसमीपे(२) । विवाहादारभ्य गर्भाधानात्प्राक् यच्चतुर्थी होमाङ्ग-समनशनीयचरुहोम-गृहप्रवेश-यानारोहण-चतुष्पथामन्त्रणा-ऽक्षभङ्ग- समाधानहोमादिरूपः कर्म्मगणउक्तः । तत्र विवाहोपक्रम एव श्राद्धं न तु तत्त- त्कर्मोपक्रमेऽपीत्यर्थः । एकेनैव श्राद्धेन सर्वाण्यपि तानि श्राद्धवन्तीत्याशयः ॥ तथा—"गणशः क्रियमाणेषु मातृभ्यः पूजनं पृथक् । सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु ॥" इति । गणशः । समुदायेन एकस्मिन्दिने । क्रियमाणेषु कर्म्मसु । यथा यजनीयेऽ- हनि नवयज्ञ-वास्तुयज्ञ-गोयज्ञा-ऽश्वयज्ञेषु सर्वोद्देशेनैकमेव मातृपूजनमेकमेव चवृद्धिश्राद्धं न तु कर्म्मसमसंख्याकमित्यर्थः । आग्नेयादीनां षण्णामप्युद्देशेन सकृदेव प्रयाजादिवत् तन्त्रेणैव सिद्धिरिति भावः । अतएवैकस्मिन्दिने क्रिय- माणेषु चूडाकरणोपनयनादिषु सकृदेवमातृकापूजनमाभ्युदयिकञ्चाचरन्तीति ॥ इत्याभ्युदयिकश्राद्धविचारः ॥ * ॥ ( १ ) "ऊर्ध्वमागहायण्यास्तिस्रोऽष्टकाः" इतिप्रतिज्ञासूत्रात् । वस्तुतस्तु-"चतसृषु" इति व्याख्येयम् । ऐन्द्री-वैश्वदेवी-प्राजापत्या-पित्र्येति तदनन्तरसूत्रे देवताभिधाने- चतुर्थ्या अप्युपादानात् । तत्राद्यास्तिस्रोऽष्टकाः पौषादिमासत्रयस्य कृष्णाष्टम्याम्-अपूप मांस-शाकैः क्रमेण होतव्याः । चतुर्थ्यपि आश्विनकृष्णाष्टम्यां कालशाकेन । "तुरीया- शाकाष्टके"ति कण्डिकोपसंहारसूत्रात् । तुरीया-चतुर्थी ॥ ( २ ) तथाच पाणिनियैः परिभाषिते "द्वन्द्वान्ते द्वन्द्वादौ वे"तिवचने परसमीपार्थ- एवान्तशब्दः पठित इति न पाणिपिहिते पाणिनीयानाम् ॥