गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 326, कुल 332 में से
संदर्भ में पढ़ेंगोभिल-श्राद्धकल्पे— २९५ शाण्डिल्यस्य महामुनेरकलुषे गोत्रे प्रशस्ये सताम् । जातः सद्गुणभूषिते करमहावंशे मुकुन्दः सुधीः ॥ व्याकृत्यादिविचक्षणः क्षणमपि प्रेक्षा न यस्याऽभवत् । श्रौत-स्मार्त्त-शिवोक्त(१)कर्मनिचयादन्यत्र लग्ना क्वचित् ॥ १ ॥ विग्नः पुत्रकलत्रमित्रनिवहस्यार्थेऽसमर्थोऽपि सन् । श्री५लक्ष्मीश्वरसिंहभूपतिमणेर्वैदेहभूमीशितुः ॥ आशीताचले सेतु-विस्तृतयशोराशेर्द्यासागर- स्यात्यर्थं कृपयाऽऽप्रसन्नमतिरिति प्रज्ञाय विज्ञापितः(२)॥ तस्याऽशेषगुणाकरस्यमहतः पत्न्याः प्रशस्यात्मनः । ज्येष्ठायाः स्वगुणैःसमा रवि(१२)मिता धर्म्माधिकारेस्थितं । सेवासक्तमना न जातुचिदपि प्राप्तोऽमतत्वं, सदा । सद्धर्मे नितराम्रतिन्दददमुष्याःसम्मतोऽभूत्ततः ॥ शा०केष्वब्धिवसुक्ष्मा(१८४१)परिमिते कस्यापि वश्यात्मनः । शश्वत्प्रार्थनया कमश्नरमहाभागैः समाकारितः ॥ धर्म्मोद्धारकृतोमहर्षितुलितस्य श्री५रमेशप्रभोः । सम्मत्याऽत्र कृतोमुजफ्फरपुरे विद्यालयेऽध्यापकः(३)॥ २ ॥ ३ ॥ ४ ॥ (विशेषकम्) श्रीमद्गोभिलगृह्यसूत्रनिवहेऽन्तेवासिनां प्रक्षुते । सम्राट्स्थापितसत्परीक्षाविधौ पूर्णोपकारक्षमाम् ॥ व्याख्यां पूर्वकृतिप्रगल्भलिखितच्छायातिहृद्यां व्यधात् । नाम्नेमां "मृदुलां" शराब्धिवसुभू (१८४५) शा० के तपस्यर्जुने ॥ वारे भूमिभुवोदिवाकरतिथौ साम्राज्यभाजि प्रभौ । जॉर्ज पञ्चमके नकेऽत्र सुखिनः स्वे स्वेऽधिकारे स्थिताः ॥ तस्यैवातिगुणे मुजफ्फरपुरे संस्थापिते प्रोन्नते । नानाशास्त्रपरिश्रिते ननु महाविद्यालयेऽध्यापयन्(४) ॥ ५ ॥ ६॥ (युग्मम्) विद्वांसोऽमत्सरा नूत्नां प्रत्नव्याख्याश्रितां पुरा । लोकन्ते चेदिमां क्षुद्रां सफलः स्याच्छ्रमोह्ययम् ॥ ७ ॥ इति ॥ यत्नेन गच्छतोमार्गे स्खलनं चेन्महीयसाम् । हसन्त्यसाधवस्तत्र समादधति सज्जनाः ॥ १ ॥ इति च ॥ (१) आगमशास्त्रं शिवोक्तम् । (२) विचार्य ज्ञापितोमहाराज्या सेवाऽऽसक्तमनाअभूदित्यन्वयः । (३) श्रौत-स्मार्त्ता-ऽऽगमकर्मकाण्डस्य । (४) अस्य व्यधादिति गतेनाभिसम्बन्धइति युग्मम् ॥