गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 38, कुल 332 में से
संदर्भ में पढ़ें१ कण्डिका ] गोभिलगृह्यसूत्रे- ७ अथाग्न्याधानविधिः अनुगुप्ता अप आहृत्य प्रागुदक्प्रवणन्देशं समं वा परिसमुह्योपलिप्य मध्यतः प्राचील्लेिखामुल्लिख्योदीचीञ्च संहतां पश्चात् मध्ये प्राची- स्तिस्र उल्लिख्याऽभ्युक्षेत् ॥ ६ ॥ अनुगुप्ता आच्छादिताः “कुशैर्-”ति शेषः । “कुशैराच्छादिता अप आ- नयन्ती-”ति गृह्यान्तरसंवादात् । प्रच्छादनञ्च पतितादिभिरुदकदर्शनं मा भू- दित्येतदर्थम् । अदृष्टाश्च वा । अप उदकम् आहृत्य-अनिषिद्धजलाशयादानी(१) य । प्रागुदक्प्रवणम्-प्राग्वा उदग्वा प्रागुद्गवा(२) प्रवणं क्रमनिम्नम् । “प्रवणं क्रमनिम्नोर्व्याम्” इत्यमरः । देशं-भूमिभागं, समं-अपाङ्नीचादिरहितम् । वाशब्दो विकल्पार्थः । तद्व्यवस्थामाह-गृह्यासङ्ग्रहः “प्राङ्नीचं ब्रह्मवर्चस्यमुदङ्नीचं यशोन्नतम् । पित्र्यन्दक्षिणतोनीचं प्रतिष्ठासम्भकं समम्” ॥ इति । प्रतिष्ठासम्भकम्-प्रतिष्ठाप्रापकम् ॥ परिसमुह्य-परि-सर्वतः । समुह्य- कुशैः पांश्वादिकमपसार्य । तथाच भरद्वाजः- “कुशैः संमार्जयेद्भूमिं शुद्धामादौ, शुचिस्ततः । हस्तमात्राञ्चतुरस्राङ्गोमयेनोपलेपयेत्” ॥ इति । यद्वा “परिसमुह्य वितस्तित्रये उत्तरत उत्करं करोती”ति गृह्यान्तरदर्शना- दुत्तरस्यान्दिशिवितस्तित्रयोपरिदेशे प्रक्षिप्य । वितस्तिर्द्वादशाङ्गुलः । अत्र-मान कर्त्तारमाह कर्म्मप्रदीपः- “मानक्रियायामुक्तायामनुक्ते मानकत्तरि । मानकृद्यजमानः स्याद्विदुषामेष निर्णयः” ॥ इति । परिसमूहनकुशानाञ्च परित्यागोविधेयः । अन्यत्र तथादृष्ट- त्वात् । यथा “सम्मार्जनान्यपास्यती”ति । परित्यागश्चैशान्यम् “द्वारमेव हि द्रव्याणां प्रागुदीच्यान्दिशि स्मृतम्” इति वचनात् । प्रागुदीची-ऐशानी ॥ उपलिप्य-गोमयोद(३)केनेति वाक्यशेषः । “गोमयोदकेन समन्तं (स्तं) पर्यु-
(१) अत्र “ताभिः प्रक्षालितपाणिपादः” इति भट्टभाष्यन्त“दाचान्तोदकेने”ति (१।१।२) सूत्रेण गतार्थम् । (२) अत्र“दिङ्नामान्यन्तराले” (पा०२।२।२६) इति बहुव्रीहिणा ऐशानीति तदर्थः । (३) गोमय मिश्रितोदकेनेति मध्यमपदलोपी समासः (पा०२।१।६० वा०) एतेन गो- मयोदकाभ्यामिति वक्तव्ये “सर्वोद्वन्द्वोविभाषैकवद्भवतीत”ति परिभाषाम्रयणं मुरारिमिश्रा- णामपार्थकम्वोध्यम् । तथा चोक्तम्भारद्वाजवचने “गोमयेने”ति सवारिणेत्येतदाक्षिपति । तथा च शौनकः “गोमयेन सवारिणा । उपलिप्य स्थण्डिलन्तु चतुरस्रन्तु सर्वतः” इति ।