भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 40, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 40

तायाः संलग्नां, पश्चात्-पश्चिमे-प्राग्गताया इत्यादिः । मध्ये-अनन्तरोक्तत्वादु- द्गतायाः । संलग्नाः प्राचीः प्राग्गतास्तिस्रोलेखाः । तत्र मध्ये द्वे प्रादेशप्रमाणे । अन्त्या द्वादशाङ्गुला । सर्वाः षडङ्गुलान्तराला(१) दक्षिणात उपक्रमदर्शनादु- त्तरोत्तरा उल्लिख्य । आसाञ्च तिसृणां लेखानामेका प्राजापत्या कृष्णवर्णा, द्वितीया चैन्द्री नीलवर्णा, तृतीया सौमी शुक्लवर्णेत्यवगन्तव्यम् ।। तदेतत्सर्वं छन्दोगपरिशिष्टवचनात्स्मृत्यन्तरसंवादाच्चावसीयते । तथाचा- ङ्गिराः— “प्राग्गता(२) पार्थिवी ज्ञेया चाग्नेयी चाप्युदग्गता । प्राजापत्या तथा चैन्द्री सौमी च प्राक्कृता(३) स्मृता ॥ पृथिवी पीतवर्णा स्यादाग्नेयी लोहिता भवेत् । प्राजापत्या भवेत्कृष्णा नीलामैन्द्रीं विनिर्दिशेत् ॥ श्वेतवर्णा च सौमी स्याद्रेखाणां वर्णलक्षणम् ॥” इति । रेखाणां-लेखानाम् । “लेखा लिपिराजिकयोर्म्मता” इति मेदिन्यां “लेखास्त राजयः” इत्यमरे च लादित्वस्यैव श्रवणात् । रलयोरैक्याद्रे- खामुलिखेदिति पाठः । आसां वर्णांश्च यथोद्दिष्टा ध्येया एव न तु द्रव्या- न्तरेण तद्वर्णकरणम् । “विनिर्दिशेद्”िति वचनस्वरसादिति शुभकर्मनिर्णये मुरारिमिश्राः । अतएव ध्येयपीतवर्णा लेखा लिखितव्येति पद्धतिकृतः ( महामहत्तकवीरेश्वरादयः ) पठन्ति । एतच्च लेखोल्लेखनं यावदग्निस्थापनं सव्यहस्तं भूमौ निधाय कर्त्तव्यम् इत्याहाङ्गिराः- “सव्यं भूमौ प्रतिष्ठाप्य प्रोल्लिखेद्दक्षिणेन तु । तावन्नोत्थापयेत्पाणिं यावदग्निं निधापयेत्” ॥ ( १ ) तथाचाङ्गिराः—“पार्थिवीं चैव सौमीञ्च लिखेद्द्वे द्वादशाङ्गुले । एकविंशति- राग्नेयी प्रादेशिन्यावुभे स्मृते ॥ षडङ्गुलान्तराः कार्या आग्नेयी संहतास्तु याः । पार्थिव्या- श्चैव रेखाया-स्तिस्रस्ता उत्तरोत्तराः” ॥ इति ॥ ननु-“शेषाः प्रादेशमात्रिकाः” इति कात्यायनवचनेन सौम्या अपि प्रादेशप्रमाणकत्वबोधनाद्विरोध इति चेन्नैवम् । तस्य न्यूनसंख्याव्यवच्छेदमात्रपरत्वात् । अन्यथा विरोधस्य परिहर्तुमशक्यत्वात् । अत एव “द्वादशाङ्गुलप्रमाणा सोमदेवताका” इति निर्विचिकित्सितं स्वस्वपद्धतौ वीरेश्वरादयो- लिखितवन्तः । यद्वा ऐच्छिको विकल्पः । फलभूमा व्यवस्थितैति दिक् । द्वादशाङ्गुलत्वा- दिकन्तु यजमानाङ्गुलिबृहत्पर्वभिः कार्यम् । तथाच कात्यायनः— “मानक्रियायामुक्तायाम्”इत्याद्युक्तवचनान्ते “अङ्गुष्ठाङ्गुलिमानन्तु यत्र यत्रोपदि- श्यते । तत्र तत्र बृहत्पर्वग्रन्थिभिर्मिनुयात्सदा” ॥ इति ॥ [