गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 51, कुल 332 में से
संदर्भ में पढ़ें२० अग्न्याधानसमयविधिः । [ प्रपाठके १ अपिवा-अथवेत्याहरेदित्यपेक्षया विकल्पार्थः । अपिवा गृह्णीयादिति । कुम्भात् घटात् वा मणिरंव माणिकस्तस्मात् अलिञ्जरात् वा “अलिञ्जरः स्यान्मणिक” इत्यमरः । महतोजलकुम्भाद्वा । वाशब्दद्वयन्तुल्यवदनयोर्विक- ल्पार्थम् । गृह्णीयात्-प्रकृतत्वादपः परिचरणीयाः । “निर्णिक्तकरचरणमुखी- पत्नी शिष्योवाऽऽचम्य कुम्भादेरप उद्धृत्याऽऽचमनन्दद्यात्ताभिः परिचरेदि”ति भट्टभाष्यम् ॥ ६ ॥ पुरास्तमयादग्निं प्रादुष्कृत्यास्तमिते सायमाहुतिञ्जुहुयात् ॥ २७ ॥ पुरा-प्रथमम् । कस्मात् ? अस्तमयाद् अर्थात्सवितुः । कात्यायनोऽप्याह— “सूर्येऽस्तशैलमप्राप्ते षट्त्रिंशद्भिरथाङ्गुलैः । प्रादुष्करणमग्नीनां पुरा भासाञ्च दर्शनात्” ॥ इति । तस्मिन्काले अग्निमाहितं प्रादुष्कृत्य प्रकटीकृत्य प्रज्वाल्य अस्तमिते स- वितरि । “यावत्सम्यङ् न भाव्यन्ते नभस्यृक्षाणि सर्वतः । न च लौहित्यमापैति तावत्सायञ्च हूयते” ॥ इति कर्मप्रदीपपरिदर्शिते काले सायमाहुति-मग्निहोत्रलक्षणा ञ्जुहुयात् २७ पुरोदयात्प्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतिञ्जुहुयात् ॥२८॥ इतिगोभिलीये गृह्यसूत्रे प्रथमप्रपाठकस्य प्रथमाकण्डिका ॥ १ ॥ १ ॥ ❀ ॥ पुरा-पूर्व्वमुदयात् सवितुः । तमिमं सामान्येनाभिहितं कालं विशिनष्टि प्रा- तरिति “चतस्रोधटिकाः प्रातररुणोदय उच्यते” इति स्मृत्युक्तक्षणे इत्य- र्थः । अत एव कात्यायनोऽपि “प्रातर्भासाञ्च दर्शनात्” इत्याह । एतस्मिन्नेव खलु काले प्राचीदिगरुणकिरणारुणीकृता भवति । तदैत- स्मिन् काले प्रादुष्कृत्य प्रज्वाल्य प्रकृतत्वादग्निम् । उदिते उद्गते रवौ— “हस्तादूर्ध्वं रविर्यावद्गिरि हित्वा न गच्छति । तावद्धोमविधिः पुण्यो नान्योऽभ्युदितहोमिनाम्” ॥ इति कर्म्मप्रदीपस्पष्टीकृते काले अनुदितेऽल्पो(१)दित इति चन्द्रकान्त(२) ( १ ) नञोल्पार्थत्वमनुदराकन्येत्यादौ दृष्टम् । यथाहुः “तत्सादृश्यमभावश्च तद- न्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” इति ॥ ( २ ) तस्यायमाशयः “रेषामात्रन्तु दृश्येत रश्मिभिश्च समन्वितम् । उदयन्तं विजा- नीयात् होमङ्कुर्याद्विचक्षणः” इति गृह्यपरिशिष्ट-( गृ० सं० )-वचने उदयमित्यल्पोदयपरं “अल्पत्वादसत्त्वमुपचर्य्यते” इति न्यायस्याल्पघनोऽधन एकपुत्रोऽपुत्र इत्यादौ दर्शनात् । तथाभूत उदयोऽनुदय एव । अत एवोदितहोमिनाङ्कालः कर्म्मप्रदीपेन “हस्तादूर्ध्वं रवि