भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 50, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 50

१ कण्डिका ] गोभिलगृह्यसूत्र — १६ यदि रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति । उत्पन्नस्योत्तरस्याह्नः सायं परिचरेदमुम्” ॥ इति । इति शब्द आधानप्रकरणसमाप्तिद्योतकः ॥ २२ ॥ ( इत्यग्न्याधानप्रकरणम् ) उक्तमर्थमनुवद्-नित्यहोमकालारम्भ उच्यते— सायमाहुत्युपक्रम एवात ऊर्ध्वं गृह्येऽग्नौ होमोविधीयते ॥ २३ ॥ अतः यथोक्ताग्निपरिग्रहात् । ऊर्ध्वम् अनन्तरम् । प्रातराहुत्युपक्रमः । प्रातरा- हुत्या य उपक्रम्यत आरभ्यते स तथाविध एव होमो(१)गृह्येऽस्मिन् अग्नौ । विधीयते-उपदिश्यते(२) । आचार्येण । एवकारेणैतद्दर्शयति यत्केषाञ्चिच्छा- खिनामग्निहोत्रं यथाप्रातराहुत्याऽऽरभ्यते सायमाहुत्या च सन्तिष्ठते(३) न तथा कौथुमादीनामिति । तदत्र सायमाहुत्युपक्रमं प्रातराहुत्यन्तमेकङ्कर्मेति विज्ञा- यते । यथाह कात्यायनः— “सायमादिप्रातरन्तमेकङ्कर्म प्रचक्षते” इति ॥ २३ ॥ पुरा प्रादुष्करणवेलायाः सायम्प्रातरनुगुप्ता अप आहरेत्परिचरणीयाः ॥ २४ ॥ प्रादुष्करणवेलायाः “पुरस्तादग्निमप्रादुष्कृत्ये”—( १-१-२२८ )-त्या- दिसूत्राभ्यां वक्ष्यमाणायाः पुरा पूर्व सायं प्रातश्च(४) अनुगुप्ता अप आहरेत् काः ? परिचरणीयाः परिचर्यन्ते निर्वर्त्यन्ते आचमनादीनि याभिरिति बाहुल- कात् ( पा० ३।३।११३ ) करणेऽनीयर् ॥ २४ ॥ अपि वा सायम् ॥ २५ ॥ अपि वा-अथवा सायम् । पुनर्वचनात्सायमेव अप आहरेत्परिचरणीया इति सम्बध्यते । सायमाहृताभिरेवाद्भिः सायम्प्रातश्च परिचरेदित्यर्थः ॥ २५ ॥ अपि वा कुम्भाद्वा मणिकाद्वा गृह्णीयात् ॥ २६ ॥ ( १ ) देवतोद्देशेन समन्त्रं द्रव्यत्यागोहोमः । स च येनैव हविषा कृतेनाकृतेन वा दध्ना पयसा वा सायं होमः कृतस्तेनैव प्रातर्होमोऽपि समापनीयोऽन्यत्र प्रतिनिधिः । प्रति- निधिश्च कात्यायनेनोक्तः । “यथोक्तवत्सत्वसम्पत्तौ ग्राह्यन्तदनुकारियत् । यवानामित्र गोधूमाः व्रीहीणामिव शालयः ॥” इति ॥ ( २ ) अत्राऽपवर्गविहितमप्यभिरूपभोजनं प्रातराहुत्यनन्तरमेवेति बोध्यम् ॥ अनु- पदं प्रदर्शयिष्यमाणकात्यायनवचनात् । उपदेशश्च तत्प्रकारस्यानन्तरसूत्रैः पञ्चभिः ॥ ( ३ ) समाप्तिङ्गच्छति । “संस्थाऽऽधारे स्थितौ मृतौ” इत्यमरः ॥ ( ४ ) आदिना राणायनीयपरिग्रहः ॥ ( ५ ) विनाऽपि चं समुच्चयो द्योत्यते “गामश्वं पुरुषं पशुम्” इत्यत्र यथा ।

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक) · पृष्ठ 50, कुल 332 में से · BharatKosha