गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 49, कुल 332 में से
संदर्भ में पढ़ें१८ अग्न्याधानाविधिः । [ १ प्रपाठके- स-यथोक्तः कर्त्ता। यदेव(१) यस्मिन्नेवाग्नौ-अन्त्यां समिधमादधाति। यस्मिन्नेव वा जायायाः पाणिञ्जिघृक्षुञ्जुहोति। लाजादिकमित्यर्थवशादुन्नेयम्। तमग्निमभिसयँच्छेत्-यत्नेनरक्षेत् ॥ २० ॥ स एवास्य गृह्योऽग्निर्भवति ॥ २१ ॥ स यथोक्त एव न पुनरन्य इत्यन्यस्मिन्नग्नावस्य होमस्य प्रतिषेधोगृह्याग्निसं- पाद्यकर्म्मसु, अन्याहिते गृहेऽपीति विज्ञायते(२)। अस्य-आधातुः गृह्यः गृहाय हितः। गृहकर्म्मोपयोगी (३)गृहनामा वा ऽग्निर्भवति। सोऽयमग्निरस्याधातुुरेव गृह्योभवति। न पुनरन्यस्येति वा सूत्रार्थः। तदेतत्सर्वमाह कात्यायनः— “नह्याहिताग्नेः स्वङ्कर्म्म लौकिकेऽग्नौ विधीयते” इति। तथा— “यस्याग्नावन्यहोमः स्यात्स वैश्वानरदैवतम्- चरूं निरुप्य जुहुयात्प्रायश्चित्तन्तु तस्य तत्॥” इति। “परेणाग्नौ हुते स्वार्थे परस्याग्नौ हुते स्वयम्”॥ इति चैवमादि। अस्य चापवादः पुरस्तादेवोक्तः(४) ॥ २१ ॥ अपिच— तेनैवास्य प्रातराहुतिर्हुता भवतीति ॥ २२ ॥ तेनैव अन्त्यसमिदाधानेन लाजहोमेन वा अस्याग्नेराधातुः प्रातरा- हुतिः हुता दत्ता भवति। तद्दिने अपरा प्रातराहुतिर्नापेक्ष्यते(५) इतिभावः। अयमर्थः। दिवा रात्रौ वा विवाहे तद्दिनेऽपरदिने वा सायमेवाहुतिर्भवति नापरेद्युः प्रातरिति। तथाचोक्तम्— “यदा अह्नि विवाहहोमस्तदा सायं काले- होमारम्भः। यदा तु रात्रौ विवाहहोमस्तदोत्तरेद्युः सायङ्काल एव होमारम्भः” इति। तथाच स्मृत्यन्तरम्— “यस्मिन्नह्नि विवाहः स्यात्सायमारभ्य तस्य तु। परिचर्य्या विवाहाग्नेर्विदधीत स्वयं द्विजः॥ (१) चन्द्रकान्तस्तु—एवकारादितिकर्त्तव्यतान्तरं व्यवच्छिनत्ति। तथाच तमेवा- ग्निमाभिमुख्येन (पूर्णाहूत्या संस्कृतम्) सयँच्छेद्धारयेत् (रक्षेत्) नान्यामिति कर्त्त- व्यतामपेक्षेतेति तदर्थः॥ आधानं प्रत्यविलम्बितत्वज्ञापनाय हि पुनर्वचनम्। इति। अत्र यदितियस्मिन्नर्थेऽव्ययम्॥ (२) एवकारस्वरसात्। (३) गृहपदमत्र गृहस्थपरं तदाश्रमस्थस्य सायम्प्रातराहुत्यादिसकलश्रौतस्मार्त्त- कर्म्मोत्र गृहकर्म्माभिधीयते। न लौकिकाग्निसाध्यम्पाकादीति बोध्यम्॥ (४) ब्रह्मचार्यांत्यादिसूत्रे (१।१।७)॥ (५) तत्कार्य्यस्य तेनैव निष्पत्त्यभ्युपगमात्॥