भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 53, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 53

प्रणीयन्ते । तत्र तदर्थनिर्वृत्तौ पुनस्तत्रैवोल्मुकं नयेत् । यत्र तु वचनात्-यथा 'पुरस्ताच्छालाया उपलिप्य शालाग्नेरग्निं प्रणयन्ती'ति तत्र नेति(१) ॥ २८ ॥ इतिश्रीमद्रोमिलीयगृह्यसूत्रव्याख्यायां "मृदुला"ख्यायां मुकुन्दशर्म्मसङ्कलितायां प्रथमप्रपाठकस्य प्रथमा कण्डिका ॥ १ ॥ १ ॥ * ॥ अथ द्वितीया कण्डिका । ( अथोपवीतविधिः ) पूर्वं “यज्ञोपवीतिनाऽऽचान्तोदकेन च कृत्यम्” इत्यनेन यज्ञोपवीताचम- नयोः कर्माङ्गतोक्ता । अथेदानीन्तदुभयमपि क्रमेण व्याचिख्यासुः शिष्यानुजि- घृक्षया यज्ञोपवीतन्तावदाह— यज्ञोपवीतकुरुते सूत्रं वस्त्रं वाऽपि वा कुशरज्जुमेव ॥ १ ॥ कुरुत इति विधौ लेट् ( पा० ३।४।७ ) कुर्यात्-धारयेदित्यर्थः । कीदृशन्त- दित्याह—सूत्रम्—सूत्रनिर्मितम् । तच्च नवभिस्तन्तुभिस्त्रिवृद्भवति । तथाच— “त्रिवृ(२)दूर्ध्ववृतङ्कार्य्यन्तन्तुत्रयमधोवृतम् । त्रिवृतञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते” ॥ इति कर्म्मप्रदीपोक्तलक्षणमित्यर्थः । अत्र मनुः— “कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्”॥ इति चैवमादि स्मृत्यन्तरेभ्योऽवगन्तव्यम् । त्रिवृदिति नवगुणं सूत्रनवकम- त्यर्थः । “नवैव त्रिवृदि”ति श्रुतेः । तथाच देवलः “यज्ञोपवीतङ्कुर्वन्ति सूत्रेण नवतन्तुकम्” इति । मुख्यश्चायं पक्षः(३) । इह वाशब्दाभावात् । उत्तरत्र वा- ( १ ) अत्र पांशुतुषारादिनाऽन्तर्हिते रवौ कर्माह कात्यायनः— "रजोनीहारधूमाभ्रवृक्षाग्रान्तरिते रवौ । सन्ध्यामुद्दिश्य जुहुयाद्व्रतमस्य न लुप्यते” इति' सन्ध्यासमयमेव सायं प्रातश्च विधेयाम् । तामुद्दिश्य यथा यदा सा समुपास- नीया तथा तदैव जुहुयादपि । उभयोरेक एव काल इत्यर्थः ॥ (२) “ऊर्ध्वन्तु त्रिवृतङ्कार्य्यमि”ति प्रचुरः पाठः । तत्रायमर्थः । वामावर्त्तवलितसूत्र- त्रयं त्रिगुणं कृत्वा तदेव त्रिगुणं सकृद् दक्षिणावर्त्तवलितं कार्य्यन्तदेव त्रिवृतं त्रिसरं सदेक- मुपवीतम् । तस्य चैको ग्रन्थिरेकमेव कौटिल्यं, भ्रमिस्तु प्रवरानुसारेणेति ॥ (३) अत्र संस्कारदीपे निगमे-“कार्पास-क्षौम-गोबाल-शण वल्क-तृणोद्भवम् । सदा सम्भवतोधार्य्यमुपीतं द्विजातिभिः ।"इति । तृणमुलपादि । सम्भवत इत्यभिधानात्पूर्व्वपू- र्वाभावे : परोत्तरविधिः । अत्र निगमपरिशिष्टम् "वाससा यज्ञोपवीतकुरुते तदभावे त्रिवृता सूत्रेण । कुश-मुञ्ज बाल प्रतिसर-रज्जुभिर्वा" इति । बालो गोबालः । प्रतिसर उलपादिः ।