भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 54, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 54

शब्दााम्नानात् । वस्त्रं वा । वाशब्दोऽभावविकल्पार्थः । अरण्यादावुपवीतनाशे सूत्रलाभासम्भवात् । तद्यज्ञोपवीतङ्कुरुते । अन्यथा व्युपवीतस्य मेहनादावनर्थः स्यात् । उद्भूतमूत्रपुरीषक्षुत्पिपासादिवेगस्य क्षणमपि स्थातुमशक्यत्वात् । “पिबतोमेहतश्चापि भुञ्जतोऽनुपवीतिनः । प्राणायामत्रिकं षट्कं नवकञ्च क्रमान्मतम्” ॥ इति स्मरणात् । अपिवा-अथवा ( चौरादिभिररण्यादौ वस्त्रस्याप्यपहारे ) कुशरज्जुमेव यज्ञोपवीतङ्कुरुते । एवकारो(१)ऽत्र सदोपवीतित्वनियमार्थोऽन्यथा कर्माधिकार एवाम्नानात्कर्म्माङ्गमेव यज्ञोपवीतमिति मन्यमानः कर्म्मण्येवोप- वीती स्यान्न सदैवति वदेत् । तच्च नो युज्यते तथाचोक्तम्मनुकात्यायनाभ्याम्- “सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखो व्युपवीतश्च यत्करोति न तत्कृतम्” ॥ इति । अस्य लम्बत्वप्रमाणमाह मनुः — “पृष्ठवंशे च नाभ्याञ्च धृतर्य्यद्भिन्दते कटितम् । तद्धार्यमुपवीतं स्यान्नातिलम्बं न चोच्छ्रितम्” इति । इदञ्च वामस्कन्धे धृत्वा परिमेयम् । अत्र स्मृत्यर्थसारे- “विच्छिन्नं वाप्यधोयातं भुक्त्वा निर्म्मिर्तमुत्सृजेत् ॥ ” मनुः — “मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत्” इति । मन्त्रवत्-समन्त्रकम् । मन्त्रश्चात्र उपनयनप्रकरणे प्रदर्शयिष्यते ॥१॥ तस्यैव खल्विदानीं यज्ञोपशीतस्य विन्यासविशेषःपरिभाष्यते विनियोग विशेषविवक्षया-द्वाभ्याम— दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय सव्येऽंशे प्रतिष्ठापयति । दक्षिणं कक्षमन्ववलम्बं भवत्येवं ज्ञयोपवीती भवति ॥२॥ दक्षिणं बाहुमुद्धृत्य उत्क्षिप्य शिरः मूर्द्धान-मवधाय वेष्टयित्वा सव्ये दक्षि- णेतरे वामेऽंशे स्कन्धे इत्यर्थः । प्रति विशिष्टेन प्रकारेण स्थापयति । यज्ञोपवी- तम् (तथासति) दक्षिणं कक्षं बाहुमूलकोटरप्रदेशम् अनुअधः अवलम्बं लम्ब- मानं भवति यज्ञोपवीतमर्थात् । पुरुषस्तु एवमनेन प्रकारेण यज्ञोपवीती भवति ।


अत्र वस्त्राभावे सूत्रविधानं त्रितन्तुकमात्रपरमतो न प्रकृतसूत्रविरोधः । अत्र वाससा यज्ञोपवीतार्थः स्त्रीशूद्राणाङ्कृते देवपितृकर्मणोरुपपद्यत इति द्रष्टव्यम् ॥ ( १ ) अत्र संस्कारदीपे मैथिलमहामहोपाध्यायहर्षनाथशर्म्माणस्तु—“एवकारोऽयं वस्त्रकुशरज्ज्वोर्यज्ञोपवीतानुकल्पयोस्त्रिसूत्रत्वादिव्यवच्छेदकः । सूत्रं - सूत्रविशेषः । इत्येवमाहुः ॥