गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 55, कुल 332 में से
संदर्भ में पढ़ें२४ उपवीतविधिः । [ १ प्रपाठके- सेयं परिभाषा कर्माार्था । “उपवीतं देवानामुपव्ययते” इत्यादिशास्त्रशेषभूता च । विध्येकवाक्यतया खल्वर्थवादानां प्रामाण्यमनुमन्यन्ते तान्त्रिकाः “विधिना चैकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः-”ति ( जै० सू० १।२।१ ) ॥ २ ॥ सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणेऽंसे प्रतिष्ठापयति । सव्यं कक्षमन्ववलम्बं भवत्येवं प्राचीनावीती भवति ॥३॥ सव्यं वामम् “वामं शरीरं सव्यं स्यादपसव्यन्तु दक्षिणम्” इत्यमरः । व्याख्यातमन्यत् । यज्ञोपवीतिना कृत्यमित्येतद्व्याचिख्यासुराचार्यः प्राचीनावी- तित्वमप्यभिदधानोयज्ञोपवीतमस्यास्तीत्यमुमेवार्थन्तन्त्रावगमयति भाष्यकल्पा- खल्वेषा काण्डिका यज्ञोपवीतिनेति सूत्रस्य ॥ ३ ॥ यदर्थं विन्यासविशेषः परिभाषितः स विनियोगविशेष इदानीमभिधीयते— पितृयज्ञे त्वेवं प्राचीनावीती भवति ॥ ४ ॥ पितृभ्यः पितॄणां वा यज्ञः “यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृता- र्थत्वात्” ( जै० सू० ४।२।२२ ) इत्युक्तलक्षणस्तस्मिन् पितृयज्ञे पितृकर्मणि । तु शब्दश्चशब्दार्थोऽन्यदपि सव्यजान्वञ्चनादि समुच्चिनोति । तदाह कात्यायनः– “दक्षिणं पातयेज्जानु देवान्परिचरन् सदा । पातयेदितरज्जानु पितॄन्परिचरन्नपि ॥” इति । एवशब्दश्चान्यदैवतकर्ममध्यपातिन्यपि पित्र्ये कर्मणि प्राचीनावीतित्वं निय- मयति । स्मरति च भगवान्मनुः— प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा । पित्र्यमा निधनात्कार्यं विधिवद्दर्भपाणिना” ॥ इति । ऋज्वर्थमन्यत् ॥ ४ ॥ ( इत्युपवीतविधिः ) ( अथाचमनविधिः ) एवं यज्ञोपवीतिना कृत्यमित्यंशं व्याख्यायाचान्तोदकेन कृत्यमित्येतदिदानीं व्याख्यायते— उदगग्नेरुत्सृप्य प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचामेद्द्विः परिमृजीत ॥ ५ ॥ अग्निसाध्यस्याग्निहोत्रस्य प्रकृतत्वादगृह्यकर्मणाञ्च प्रायेणाग्निसाध्यत्वादु- दगग्नेरित्याह । उदगुत्तरतः । कस्य ? अग्नेः । उत्सृप्य-उत्क्रम्य गत्वेत्यर्थः । सृपिर्गत्यर्थः (भ्वा. प.) पाणी हस्तौ पादौ चरणौ च प्रक्षाल्य प्रकर्षेणाद्भिः शोध- यित्वा । “क्षलशौचकर्मणि” ( चु. प. ) तदितिकर्त्तव्यतामाह देवलः !