गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 56, कुल 332 में से
संदर्भ में पढ़ेंकण्डिका १ ] गोभिलगृह्यसूत्रे- ३५ “प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेच्छनैः । उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः” इति ॥ क्रमश्च पादप्रक्षालने “सव्यं पादमवनेनिजे” इति सव्यं पादं प्रक्षालयेत् । “दक्षिणं पादमवनेनिज” इतिदक्षिणम्पादं प्रक्षालयेद्”-( ४-१०-१० ) ति लिङ्गदर्शनादवगन्तव्यः । “सव्यं प्रक्षाल्य दक्षिणं प्रक्षालयती”ति गृह्यान्तरम् । उपविश्य । “अन्तर्जानु शुचौ देशे उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्विजोनित्यमुपस्पृशेत् ॥” इतिस्मृत्यन्तरोक्तप्रकारेणेत्यर्थः । त्रिः त्रिवारम् । क्रियाभ्यावृत्तिगणने “द्वित्रिचतुर्भ्यःसुच्” (पा०५।४।१८) इति सुच्प्रत्यय एवमग्रेऽपि । आचामेत् । “आचान्तोदकेन कृत्यम्” इत्यस्य परिदर्शकवतया अप इति वाक्यशेषः । “त्रिः पिबेदम्बुवीक्षितम्” इति च स्मृत्यन्तरम् । अत्र त्रिराचामेदित्यभिधान आचा- र्य्यस्त्रिरवभक्षणमाचमनमन्यदितिकर्त्तव्यतेति दर्शयति । मन्वर्थमुक्तावल्यामप्ये- वम् । द्विः द्विवारम् परिमृजीत(१) “संवृत्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम्” इतिदत्तस्मरणात्संवृतं मुखमङ्गुष्ठमूलेन प्रमृज्यादित्यर्थः ॥ ५ ॥ पादावभ्युक्ष्य शिरोऽभ्युक्षेत् ॥ ६ ॥ अद्भििरिति सामर्थ्यात् । ऋज्वन्यत् । विसमासकरणं पादाभ्युक्षणशेषेण शि- रोऽभ्युक्षणनिषेधार्थमिति भट्टभाष्यम् ॥ ६ ॥ इन्द्रियाण्यद्भिः संस्पृशेत् ॥ ७ ॥ इन्द्रियाणि । इन्द्रियाणाममूर्त्तत्वात्तदायतनानि । अद्भिः करणभूताभिः उदकार्द्रेण हस्तेन प्रतीन्द्रियमित्यर्थः । संस्पृशेत् । सम्यक् स्मृत्यन्तरोक्त(२) प्रकारेण स्पृशेत् ॥ ७ ॥ कानि तानीन्द्रियाणीत्याह- ( १ ) “मृजूशौचालङ्कारयोः” ( चु०उ० ) इत्यस्याधृषीयत्वान्णिजभावपक्षे विधा लिङि रूपम् । प्रमृज्यादिति तु “मृज शुद्धौ” (अ०प०) इत्यस्य । अत्र कात्यायनः “त्रिः प्राश्यापोद्विरुन्मृज्य मुख, मेतान्युपस्पृशेत् । आस्यनाशाक्षिकर्णांश्चनाभिवक्षः शिरोंऽसकान्” इति । एतच्चाचान्तोदकेनेति सूत्रांशं स्फुटीकरोति । वारत्रयमपः प्रकर्षेण भक्षयेत् । अक्षेण- प्रकर्षश्च कर्म्मकरणकर्तृप्रकर्षात् । तत्रकर्म्मप्रकर्षोऽनुष्णत्वादफेनत्वाबुद्बुदत्वहृदयगामित्वा- दिरूपः । कर्तृप्रकर्षश्च कृतपाणिपादशौचत्वासीनत्वप्राङ्मुखत्वादिरूपः । करणप्रकर्षश्चात्र ब्राह्मतीर्थत्वादिः । एवमपोभक्षयित्वा मुखं वारद्वयमूर्ध्वं लोमस्थाने मार्जयेत् । नत्वलोमके । पुनराचमनेऽनवस्थाप्रसङ्गात् । तथाच परिशिष्टम् “आचान्तःपुनराचामेत् वासश्चपरिधायो- ष्ठौ संस्पृश्य यन्नालोमकौ” इति । ( २ ) तथाच मनुः “त्रिराचामेदपः पूर्वं द्विःप्रमृज्यात्ततोमुखम् । खानि चैव स्पृशेद- द्भिरात्मानं शिर एव च ॥” इति । अस्यार्थः । प्राङ्मुख उदङ्मुख ईशान्याभिमुखोवाऽनु- ४ गो० गृ० सू०