गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 6, कुल 332 में से
संदर्भ में पढ़ेंभूमिका । ३ “शूद्रोऽप्येवं विधः कार्योंविनामन्त्रेण संस्कृतः । न केन चित्समसृजच्छन्दसा तं प्रजापतिः ॥” इति । एवंविधोऽदुष्टकर्मा । यथोदितकर्मा च । “अशूद्राणामदुष्टकर्मणा- मि”-ति आपस्तम्बेनोपनयने शूद्रपर्युदासात्तस्यामन्त्रकमप्युपनयनं निषि- द्धम् । अत एव— “तस्मादस्याधिकारोस्ति न वेदेषु न च स्मृतौ” इति तस्य वेदाद्यध्ययननिषेधः । तथा-“विवाहमात्रसंस्कारं शूद्रोऽपि लभतां सदा ।” इत्यत्र मात्रग्रहणाद्विशेषविहितव्यतिरिक्तन्निवृत्तिरितिनोक्तवचनविरोधः । इदंवाक्यं विवाहे कन्यादानादिवाक्यसम्बन्धोभवति । संस्कारान्तरेषु च लौकिकवैदिक-सर्वविधवाक्यनिवृत्तिरित्येतत्तात्पर्यकमित्यपरे वदन्ति । अथास्य प्रकाशने निदानम् एकदा वर्त्तमानमिथिलेश-तातपादा रहस्येतमर्थमस्माभिः सविनयं प्रबोधिता यदेते संस्कारा नाधुना पठनपाठनक्रमेण समाहताइति यथापुस्तकमधीतशास्त्रान्त- राअपि पौरोहित्यमनुतिष्ठन्तो “यथालिखितपाठक”-तया “गीती-शीघ्री-शिरः कम्पी यथालिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च षड़ेते पाठकाधमाः ॥” इति पाणिनिशिक्षया पाठकाधमेषु परिगणिताः सन्तोयथावत्कर्मकारयितु- मपारयन्तः पुरोहिताअपि पुरोऽहिताः प्रायोवृत्त्या सम्बोभुवति ततएष कर्मका- ण्डग्रन्थपठनपाठनक्रमोऽभिनवोद्घाटितमुजफ्फरपुरीयधर्मसमाजसंस्कृतमह- विद्यालये धर्म्यइति कृत्वा स्थापितश्चेद्भविता तदा महती धर्मोन्नतिः ( धर्म्य- कर्मज्ञानेन ) सम्पादिता स्यादिति । एवमस्मदभ्यर्थनया लुप्तप्रचारस्यास्य ( कर्मकाण्डग्रन्थपठनपाठनक्रमस्य ) सम्पाठनमुखेनराजकीयपरीक्षायामपिशास्त्रान्तरवदुपयोजयितुमावर्जितस्वान्तै रु- क्तास्मत्प्रभुवरैर्मिथिलामहीमहेन्द्रैः श्रीमद्रमेश्वरसिंहवीरविक्रान्तैर्विहारोत्क- लप्रान्तीयः सम्राड्द्वितीयप्रतिनिधिः सपुरस्कारन्तदर्थमार्थिकसाहाय्यकदानेनानु- कूलितः। ततश्चास्य श्रौत-स्मार्त्ता-गमऽऽभेदभिन्नस्य त्रिविधस्यापि कर्म्मकाण्डस्य सर्व्वाअपि प्रथमादिका उपाध्यन्ताः परीक्षास्तेन तत्र महाविद्यालयेकालेन प्रवर्त्तिताः अथ तत्रोक्तविषयाध्यापनायोक्तप्रभुवरैर-हमेव तत्र नियोजयितुमुपश्लोकितो- ऽथानुमतश्च “गवर्निङ्गबडी”-समाख्यसभायां समलमकार्षमुक्ताध्यापनस्थानम् । अथ गते बहुतिथे काले बिहारोत्कलप्रान्तीय-“संस्कृत-कौन्वोकेसन” सभायाः सभ्येष्वन्यतमः संवृत्तः। अथ तत्र ( सभायां ) सभ्यैरनतिप्रचाराणां दुर्बोधानाञ्च कर्म्मकाण्डे पाठ्यग्रन्थानां ससरलव्याख्यं प्राकाश्यमभिलक्ष्यमाणानां प्राचीनानान्मध्ये