गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 5, कुल 332 में से
संदर्भ में पढ़ें२ भूमिका । “अतऊर्ध्वम्पतन्त्येते सर्वकर्मबहिष्कृताः” इति याज्ञवल्क्येन गौणकालपर्यन्तमप्यनुपनीतेषु पातित्याभिधानात्। विवा- होऽपि नित्यः । आवश्यक-सत्प्रजोत्पादनार्थत्वात् । “तस्मात्सर्वप्रयत्नेन कर्त्तव्योदारसंग्रहः” इति देवलवचनात् । “दारान्सर्वप्रयत्नेन विशुद्धानुद्वहेत्ततः” इति कश्यपवचनाच्च । गर्भाधानादि तु न तथा । अतएवानावश्यकत्वान्नानु- तिष्ठन्ति बहव इति मुरारिमिश्रादयः । अत्र गर्भाधानं क्षेत्रसंस्कारद्वारा- ऽपत्यसंस्कारकम् । पात्रसंस्कारस्य प्रक्षालनादेस्तत्स्थजलादिसंस्कारकत्व- वत् । पुंसवन-सीमन्तोन्नयने अपि तथा । स च क्षेत्रसंस्कारः प्रथमगर्भएव- संपन्नश्चेन्नैतेषान्त्रयाणां प्रतिगर्भमावृत्तिः । आरम्भणीयान्यायात् । “सकृच्चसंस्कृता नारी सर्वगर्भेषु संस्कृता । यंयंगर्भं प्रसूयन्ते स सर्वः संस्कृतोभवेत्” इति हारीतवचनाच्च । पत्नीभेदे तु भवत्येव त्रयाणामावृत्तिः । “प्रधानावृत्तौ गुणावृत्तिरिति”-तिन्यायात् । जातकम्र्मादिकन्तु न स्त्रीद्वाराऽपत्यसंस्कारकमिति न तत्प्रत्यपत्यमावर्त्तते । अत्र याज्ञवल्क्यः— “ब्रह्म-क्षत्रिय-विट्-शूद्रा वर्णास्त्वाद्यास्त्रयोद्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः” मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मण-क्षत्रिय-विशस्तस्मादेते द्विजाः स्मृताः” ” इति । इमे च संस्काराः पुंसामिव स्त्रीणामपि चातुर्वर्ण्येषु नियमिता महर्षिभिः । केवलमेषु विवाह एव समन्त्रकोऽन्येसंस्कारा अमन्त्रका एव भवन्तीति— “तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः । इति स्मृत्योक्तम् । तूष्णीम्-अमन्त्रिकाः। एता-जातकम्र्मादिकाः । यत्त्वत्र “निषेकाद्या” इति मुरारिमिश्रैरुक्तन्तद्युक्तम् । जन्मतः पूर्वं स्त्रीत्वनिर्णयास- म्भवात् । मनुः—“अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः । संस्कारार्थं शरीरस्य यथाकालंयथाक्रमम् ॥ वैवाहिकोविधिः स्त्रीणामौपनायनिकःस्मृतः । पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया”॥ इति । औपनायनिकः । उपनयनकार्य—(प्रायत्य—) कारी । स्त्रीणामुपन- नयस्थाने विवाहएवेति यावत् । गुरुशुश्रूषणस्थाने-पतिसेवा । अग्निपरिचरण- स्थाने गृहकार्यम् । एतेसंस्काराः शूद्राणाममन्त्रका भवन्ति । तथा च यमः