गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 63, कुल 332 में से
संदर्भ में पढ़ें३२ आचमनविधिः। [ १ प्रपाठके- आचान्तः कृताचमनोऽपि पुनराचामेत् । तथाच (१) द्विराचमनेषु निमित्तेषु कर्त्तव्यमन्यत्र कर्मकालात् । तथाच पराशरः- "क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने । कर्मस्थ एषुनाचानेद्दक्षिणं श्रवणं स्पृशेत्( २ )” ॥ इति । निष्ठीविते-मुखेन कठिनश्लेष्मत्यागे । नासानिसृते कठिनश्लेष्मणि च । पतितानाञ्चसम्भाषेऽधोवायुसमुत्सर्गेऽनृतभाषणे । एवमन्येष्वपि निमित्तेषु स- त्सु कर्मस्थोऽसमर्थः समर्थोऽपि नाचामेत् किन्तु-दक्षिणं कर्णमेव स्पृशेत् । इति स्मृतिदीपिकायां महामहो० वामदेवोपाध्यायाः । तथा च वृद्धशातातपः- “वातकर्मणि निष्ठीव्य दन्तश्लिष्टे तथाऽनृते । क्षुते पतितसम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥” इति ॥ ३२ ॥ ( इति सर्ववर्णसाधारणप्रकरणम ) इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां "मृदुला"ख्यायां मुकुन्दशर्म्मसङ्कलिता- याम्प्रथमप्रपाठकस्य द्वितीया कण्डिका ॥ १ ॥ २ ॥ * ॥ ( १ ) द्विराचमनानन्तरं-विष्णुस्मरणमाह-आचारचिन्तामणिवृतं ब्रह्मपुराणम्- “द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम्” इति । ( २ ) एतच्च विप्रस्यैव । "विप्रस्य दक्षिणे कर्णे सर्वास्तिष्ठन्ति देवताः" इति परा- शरवचनात् । विप्रान्यस्तु-भूपृष्ठादिस्पर्शनमनुकल्पान्तरं कुर्यात् । तथा च वामदेवोपा- ध्यायकृतस्मृतिदीपिकाधृत-मार्कण्डेयपुराणम् । “कुर्यादाचमने स्पर्शं गोपृष्ठस्यार्कदर्शनम् । कुर्वीताऽऽलम्भनञ्चापि दक्षिणश्रवणस्य च ॥ यथाविभवतोह्येतत्पूर्वाभावे ततःपरम् । न विद्यमाने पूर्वस्मिन्नुत्तराप्राप्तिरिष्यते ॥” इति ॥ गोपृष्ठस्य-भूतलस्य । "गौरिला कुम्भिर्नी क्ष्मा” इति भूमिपर्यायेऽमराभिधानात् । उपक्रान्तवचने एष्वित्युक्त्या एकदेशानुमत्या तुल्ययुक्त्या चान्यत्राप्येतत्कर्मस्थस्यानु जानाति । भूतलमार्द्रमित्याचारदीपिकाकाराः । "आर्द्रन्तृणम्भूमिङ्गोमयञ्चोपस्पृशेत्” इति बौधायनस्मरणात् । आचमननिमित्तानि विशेषतोनित्यकृत्यार्णवे द्रष्टव्यानि । तत्र कर्मस्थस्य रौद्रादिमन्त्रजपादौ-आचमनमाह-योगियाज्ञवल्क्यः- “रौद्रपैत्रासुरान्मन्त्रांस्तथा चैवाऽभिचारिकान् । व्याहृत्यालभ्य चात्मानमपःस्पृष्ट्वाऽन्यदाचरेत् ॥” आत्मानमालभ्य-हृदयं स्पृष्ट्वा । स्वं स्तुत्त्वा वा । अपःस्पृष्ट्वा-आचम्येत्याचारचि- न्तामण्यादयः । एतेनात्मस्तुतिरात्मवधतुल्येति महाभारतोक्तं समर्थितम्भवति । अप्रा- शस्त्यस्मरणात् ॥