गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 62, कुल 332 में से
संदर्भ में पढ़ें१ कण्डिका ] गोभिलगृह्यसूत्रे- ३१ यद्वा चार्थेतु शब्दो— “हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः” ॥ इति मनूक्तं समुच्चिनोति । प्राशिताभिरन्तरास्यप्रविष्टाभिः कण्ठमप्रा- प्ताभिरपि । शूद्रस्तु जिह्वौष्ठान्तेनापि स्पृष्टाभिरद्भिः पूतोभवति । अन्तत इति तृतीयान्तात्तसिः । ( पा० ५।४।४४ वा० ) ॥ २९ ॥ उच्छिष्टो हैवातोऽन्यथा भवति ॥ ३० ॥ हेत्यैतिहास्याख्यापकमव्ययम् । अतोऽस्माद्यथोक्ताचमनादन्यथाऽन्येन प्रका- रेण कृताचमनोऽपि उच्छिष्ट एव भवतीतिवृद्धैराम्नायते । इतिर्ब्राह्मणवाक्यस- माप्तिं द्योतयति ॥ ३० ॥ अथ प्रत्युपस्पर्शनानि ॥ ३१ ॥ अथ-उपस्पर्शनकथनानन्तरं प्रति-पुनरुपस्पृश्यन्ते येषु ( निमित्तेषु ) तानि प्रत्युपस्पर्शनानि । द्विराचमाननिमित्तानि “वक्ष्यन्ते” इति शेषः(१) ॥ ३१ ॥ सुप्त्वा, भुक्त्वा, क्षुत्त्वा, स्नात्वा, पीत्वा विपरिधायच, रथ्या- माक्रम्य, श्मशानञ्चान्ततः पुनराचामेत् ॥ ३२ ॥ इति गोभिलीये गृह्यसूत्रे प्रथमप्रपाठकस्य द्वितीया कण्डिका ॥ १ ॥ २ ॥ ꕤ सुप्त्वा-निद्रामासेव्य । भुक्त्वा-अन्नादि भक्षयित्वा । क्षुत्त्वा-क्षुतं कृत्वा । स्नात्वा-आप्लुत्य । पीत्वा-पेयमुदकादि । विपरिधाय वासः। चः समुच्चये- “होमे भोजनकाले च सन्ध्ययोरुभयोरपि । आचान्तः पुनराचामेद्व़ासोविपरिधाय च ॥” इत्येवमादि स्मृत्यन्तरोक्तनिमित्तान्तरं समुच्चिनोति । रथ्या-प्रतोली-वि- शिखेति समानाऽभिधानम्। तामाक्रम्य श्मशानं (२) चकारादाक्रम्येत्यनुषज्यते । प्राशिता आपोयदि हृदयङ्गमा न भवन्ति तदा चतुः प्राशयेत् । तथाच गौतमः—“त्रिश्च- तुर्वाऽपआचामेदि”ति । तुशब्दात्क्षत्रियस्तु कण्ठगाभिरेव शुद्ध्येत । वैश्योभक्षितमात्राभि- रेव । शूद्रोमुखप्रविष्टाभिरेवेत्युक्तम् ॥ ( १ ) एतान्येव प्रत्युपस्पर्शनपदाऽभिधेयानि पुनराचमननिमित्तान्यष्टौ सांख्यातानी- ति सत्यव्रतसामश्रमिणः ॥ ( २ ) शवानां शयनम् । इति चन्द्रकान्तः । निरुक्ते तु श्मशयनं श्मशानम् । श्मश- रीरम्” (३।५।३) इति । तच्चशवस्यैव । तथाचोक्तं स्कान्दे काशीखण्डे--“श्मशब्देनशवः प्रोक्तः शाने शयनमुच्यते । निर्वचन्ति श्मशानार्थं मुने शब्दार्थकोविदाः” इति । ( अ० ३० श्लो० १०३ ) ।