गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 61, कुल 332 में से
संदर्भ में पढ़ें३० आचमनविधिः । [ प्रपाठके १ कृता येन सोऽयं काम्क्तिकः । कृतशिरोवेष्टनः । उपलक्षणमेतत् । बद्धपरिकरः कञ्चुकीचैवमुच्यत इत्यन्ये ॥ २५ ॥ एवम्— गले बद्धः ॥ २६ ॥ गलावम्बितवासाः । प्रावृतोत्तरासङ्गः । नोपस्पृशेत् ॥ २६ ॥ चरणौ न प्रसार्यच ॥ २७ ॥ उपस्पृशेदित्यनुवर्त्तते । चरणौ-पादौ । प्रसार्य-वितत्य । .चशब्दः- “आ- सनारूढचरणोनाचामेन्न जपेत्क्वचित्” इति स्मृत्यन्तरोक्तं समुच्चिनोति ॥ २७ ॥ अन्ततः प्रत्युपस्पृश्य शुचिर्भवति ॥ २८ ॥ अन्ततः । अन्ते । सार्वविभक्तिकस्तसिः । ( पा० ५।४।४४ वा० ) आर- ब्धवैधककर्म्मणाम् अनुपदवक्ष्यमाणशयनादीनाञ्चान्तेऽवसाने प्रत्युपस्पृश्य— पुनराचम्य शुचिः शुद्धोभवति । अत्र “सावधारणं सर्वं वाक्यमब्भक्षोवायु- भक्ष” इति वदुपस्पृश्यैव शुचिर्भवति नान्यथेत्यर्थः । अत्र प्रत्युपस्पृश्येत्यस्य स्पृष्ट्वोदकम्पाणिनेति भट्टभाष्यसम्मतार्थः । सचायं जलस्पर्शः पूर्व[८]सूत्र- व्याख्याने स्पष्टमभिहितः । अन्येत्त्वाहुः—अन्ततोमध्यत इन्द्रियायतनानि उपस्पृश्य(१) शुचिर्भवति न पार्श्वत इति ॥ २८ ॥ हृदयस्पृशस्त्वेवापआचामेत् ॥ २९ ॥ हृदयस्य स्पृशः(२) । क्विबन्तमेतत्पदम् । अपः । ब्राह्मणविषयमेतत्(३) । ( १ ) उपस्पर्शयित्वा । “जलेने”ति शेषः । अत्राचमनविध्यनन्तरं देवलः— “रेतोमूत्रशकृन्मोक्षे भोजनेऽध्वपरिश्रमे । शौचमेवं विधम्परोक्तमीषच्चान्यत्र वर्त्तते ॥” इति । एवं विधं—यथोक्तसकलाङ्गसम्पन्नम् । ईषत्—आचमनमात्रमपि । इन्द्रियस्पर्शादिर- हितम् । त्वरादिवशादन्यत्र शुद्धये भवतीत्यर्थ इत्याचारचिन्तामणौ वाचस्पतिमिश्राः प्राहुः । अन्यत्रेत्युक्तिकर्म्मव्यतिरिक्तविषया । तत्र विशिष्य तद्विधानात् । अत्र ( आचमने ) प्रौढपादत्वं निषेधति कात्यायनः— “स्नानमाचमनं होमं भोजनं देवता- र्चनम् । प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् ॥ तल्लक्षणं यथा— “आसनारुढपादस्तु जानुनोर्जङ्घयोस्तथा । कृतावसक्थिकोप्यस्तु प्रौढपादः स उच्यते ॥” इति । आसनारुढपाद आसनारुढपादतलः । जानुनोर्जङ्घयोः कृतावसक्थिकः, कृतजानुज- ङ्घाबन्धः । तुद्वयेन भेदप्रतीतेः । अत्रचा—“नेकोद्वाह्ये दारुशिले भूमिसमे । इष्टकाश्च सङ्की- र्णीभूता” इति बौधायनवचनात्तथाविधापादपि तन्न कुर्यात् । इति बोध्यम् ॥ ( २ ) षष्ठी समासः । यत्तु हृदयं स्पृशन्तीति विजगृाह कश्चित्तन्न तथासति "कर्म्म- ण्यण्” ( पा० ३।२।१ ) इत्यगोपधागुणे हृदयस्पर्शीरिति प्रसज्येत ॥ ( ३ ) भट्टभाष्ये तु हृदयस्पृश एव यथा भवन्ति तथाचामेन्नान्यथेति । तथा च त्रिः