भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 60, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 60

कण्डिका ] गोभिलगृह्यसूत्रम् — २६ नानवेक्षितम् ॥ १९ ॥ अनवेक्षितं — दृष्ट्वा अपूतम् । हस्तगृहीतमुदकमवेक्ष्येव यथालब्धं दृश्य- केशकीटादिरहितं नोपस्पृशेत् । “रात्राववलोकितेनापि शुद्धिस्क्ता मनीषिभिः ।” इति स्मरणाद्रात्रावेष नियमोन । किंतु तत्र ( रात्रौ ) वस्त्रपूतन्तदपेक्षितमिति द्रष्टव्यम् ॥ १९ ॥ न बाह्यंसः ॥ २० ॥ बाह्यौ जानुभ्यां बहिष्कृतावंसौ स्कन्धौ (१) यस्य तथाभूतः सन् नोपस्पृशेत् । “अन्तर्जान्वरत्नी कृत्वा त्रिरपोहादीः(२) पिवेद्”ति हारीतस्मृतिदर्शनात् ॥२०॥ नान्तरीयैकदेशस्य कल्पितोत्तरीयत्वात् ॥ २१ ॥ अधः परिधानवस्त्रमन्तरीयमुच्यते तदेकदेशस्य तदवयवस्य । उत्तरीयता- ङ्कल्पयित्वा । एकवासा इत्यर्थः । याजुषास्तु तद्विधीयते । (पा०गृ० २।६।२३) २१ नोष्णाभिः ॥ २२ ॥ उष्णाभिर्बहिस्तप्ताभिरद्भिरिति पुनर्घर्मसंतप्ताभिरपीत्यर्थः । भट्टभाष्येतु — अ- स्यापवादकवचनमुपन्यस्तम् “उदकेगातुरोनाऽथ तथोष्णेनोष्णपायिनाम्” इति२२ न सफेनाभिः ॥ २३ ॥ अद्भिरेव ॥ २३ ॥ न च सोपानत्कः क्वचित् ॥ २४ ॥ चशब्दोऽप्यर्थोभिन्नक्रमश्च । उपानहौ प्रसिद्धे ताभ्यां सहितः सोपानत्कः : क्वचिच्च क्वचिदपि कस्याञ्चिदप्यवस्थायान्नोपस्पृशेत् । देवलः — “सोपानत्कोजलस्थोवा मुक्तकेशाऽपि वा द्विजः । उष्णीषी वापि नाचामेद्वस्त्रेणाऽऽवेष्ट्य वा शिरः ॥” इति । अत्र विशेषोगोभिलीये — “जानुभ्यामूर्ध्वमाचम्य जले तिष्ठन्न दुष्यती”त्युक्तम् । सोपानत्क इत्युपलक्षणम् । पादुकास्थोऽपि नाचामेत् । तथाच मरीचिः — “न बहिर्जानु न त्वरया नासनस्थोन चोत्थितः । न पादुकास्थानन्यचित्तः शुचिः प्रयतमानसः ॥ उपस्पृशेद्द्विजोनित्यं शुद्धः पूतोभवेन्नरः । मुक्त्वाऽऽसनस्थोऽप्याचामेन्नान्यकाले कदाचन ॥” इति ॥ २४ ॥ कासक्तिकः ॥ २५ ॥ नोपस्पृशेदित्यनुवर्त्तते । के शिरसि—आसक्तिका—आवेष्टिका (वस्त्रबन्धनं) ( १ ) तत्प्रधानौ बाहू इति तदर्थः । ( २ ) हृद्गाः । एतच्च विप्रविषयम् । “हृद्गाभिः पूयते विप्रः” इत्याद्यनुपदं ( २९ सूत्रे ) व्यक्तं भविष्यति ॥