भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 66, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 66

रोतु । वाचस्पतिः (१) प्राणः । नोऽस्माकं वाचं स्तुतिरूपां स्वदतु स्वादयतु । देव- ताप्रीतिकरीङ्करोतु । अन्तर्भावितण्यर्थोऽत्र स्वदतिः । व्यत्ययेन पदस्यात्रोपन्य- स्तः । ( पा० ३।१.८५ ) इति । प्रदक्षिणं यथा भवति तथा अग्निं पर्युक्षेत् । परित उक्षेत् सिञ्चेत् । “उक्षसेचने” ( भ्वा० प० ) विधौलिङ् । उदकाञ्जलि- धारया प्रदक्षिणमग्निं वेष्टयेत् । इत्यर्थः । सकृद्वा त्रिवेति क्रियाविशेषणम् । वा- शब्दद्वयेन तुल्यवद्विकल्पेऽपि त्रिरावृत्तिपक्षे तद्विधेरनुष्ठानलक्षणोऽप्रामाण्यमि- या फलभूमा कल्पनीयः । अतएवाह कात्यायनः- “यत्र स्यात्कृच्छ्र भूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्त्वं ब्रुवते तत्र कृच्छ्राच्छ्रेयोह्यवाप्यते” इति ॥ ४ ॥ पर्युक्षणप्रकारमाह— पर्युक्षणान्तानव्यतिहरन्नभिपर्युक्षन् होमीयम् ॥ ५ ॥ अन्त—शब्दोऽत्रार्थः । अग्निष्टोमे द्वितीयायां धुरि “तस्यान्तेऽन्तरे सल्लँग्मे” इत्यत्र तदर्थकत्वदर्शनादिति शुभकर्मनिर्णये मुरारिमिश्राः प्राहुः । भाष्यान्तरेऽ- प्येवमेव । व्यतिहरन्—व्यतिषञ्जनप्रतिलोमीकुर्वन् । बहुवचनश्रुतिस्त्रित्वतिपक्षा- भिप्राया । तदयमर्थः । पर्युक्षणानाम्पर्युक्षणोदकधाराणा(२) मन्तान् आरम्भान् व्यतिहरन्नभ्यन्तरतः कुर्वन् । इति । अनेनैतदुक्तम्भवति—पर्युक्षणारम्भकोटि- मभ्यन्तरतोऽवसानकोटिञ्च बहिः कुर्यादिति । वीरेश्वरादयोऽप्येवमेवाहुः । हो- मीयम्—होमार्थमुपकॢप्तं व्रीह्यादि । तस्मै हितमित्यर्थे—“विभाषा हविरपूपादिभ्यः” ( पा० ५।१।४ ) इतिच्छस्तस्येयादेशः । ( पा० ७।१।१ ) अभिपर्युक्षन्—पर्युक्षण- धारयाऽभ्यन्तरतः कुर्वन् इत्यर्थः । यद्वाऽऽभिमुख्येन सिञ्चन्त्स्पर्शयन्पर्युक्षेद्- ग्निम् इति सम्बध्यते ॥ ५ ॥ अथहविष्यस्यान्नस्याग्नौ जुहुयात्कृतस्यवाऽकृतस्यवा ॥ ६ ॥ अथ—इत्यानन्तर्यार्थोविशिष्टमानन्तर्यमभिद्योतयति—पर्युक्ष्य तूष्णीं समिध- माधायाथजुहुयान् इति चन्द्रकान्तभाष्यम् । तेन हि प्रथमसूत्रे परिसमुह्येत्यस्य विच्छिन्नानग्न्यवयवानेकीकृत्यामन्त्रकमितिव्याख्यातम् । तदेतदनुमतं पूर्वषाम् । यच्चोद्धृतन्तेन— “समिदादिषु होमेषु मन्त्रदैवतवर्जिता । पुरस्ताच्चोपरिष्टाच्च इन्धनार्था समिद्भवेत्” ॥ इति कर्म्मप्रदीपवचनं तदपि पूर्वार्थापरिज्ञानविजृम्भितमितिनकिञ्चिदेतत् । हविष्यस्य—हविषि होतव्ये वस्तुनि साधोः “तत्र साधुः” ( पा०४।४।९८ ) इति

( १ ) तथाच “पुनरेहि वाचस्पते” ( ऋ० सं० १०।१६१।३।७) इति मन्त्रे वाचस्पति- पदेन प्राण एव सम्बोधितः सायणाचार्यदुर्गाचार्यादिभिः । ( २ ) तथाचात्रोक्षतेः करणे ल्युटि योरनादेशाइत्यवगन्तव्यम् ।