गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 76, कुल 332 में से
संदर्भ में पढ़ेंकण्डिका ] गोभिलगृह्यसूत्रे- ४१ निष्ष्ठिते(१)—सम्पन्ने। सायमक्यत इति सायमाशः। एवं प्रातराश्यत इति प्रातराशः। “अशभोजने” (क्र्या० प०) कर्मणि घञ्, उपधावृद्धिः। स च स चेति द्वन्द्वैकवद्भावः। तस्मिंस्तथोक्ते। अत्राऽपूर्वत्वमभिमत्य रात्रिन्दि- वभोजनाय पर्याप्तेऽन्नपाकेऽभिनिष्पन्न इति तदथ इतिचन्द्रकान्तः। तथाचात्र सायं प्रातः शब्दौ दिवारात्रिपरौ-“मुनिभिर्द्विरशनमुक्तं विप्राणाममर्त्त्यवासिनां नित्यम्। अहनि च तथातमस्विन्यां सार्द्धप्रहरयामा(२)न्तः”॥ इति कर्म्मप्रदी- पदर्शनात्। भूतम् ? निष्पन्नम् ? इति पत्नीम्। सवर्णां वा स्त्रियं पाकेऽधिकृता- मिति चन्द्रकान्तः[३]। प्रवाचयेत्। प्रश्नपूर्वकं वाचयेत्। शब्दकर्मकत्वाद्वचेः कर्मणि द्वितीया। (पा०१।४।५२) भट्टभाष्ये तु—“भूतमिति” ब्रूहीत्युक्त्वा प्रकर्षेण वाचयेत्। कः? प्रकृतत्वात् गृहपतिः। कां? पत्नीम्। अन्नपक्त्या- म्पत्न्या एवाधिकारात्। तथा च मनुः— “अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत्। शौचे धर्म्मेऽन्नपक्त्याञ्च पारिणाह्यस्य चे(वे)क्षणे”॥ इति। धनस्य संग्रहणे विनियोगे च। द्रव्यशरीरशुद्धौ भर्त्रामिश्रश्वश्रादिकेऽ- न्नपचने गृहोपकरणस्य शय्यासनकुण्डकटाहादेरवेक्षणे-एनां-पत्नीं नियोजयेत्॥ वेक्षण इति पाठेऽवस्यादिलोपो द्रष्टव्यः(४)॥ १६॥ अथ प्रवाचनस्य कालप्रकारावाह— ऋते भगया वाचा शुचिर्भूत्वा ॥ १७॥ ऋते—गते—“ऋगतौ” (भ्वा० प०) कर्त्तरिक्तः (पा० ३।४।७२) प्रकृतस्वा- दन्ने। होमार्थमग्निसंन्निधावासादिते सति-इत्यर्थः। अस्मिन्काले प्रवाचयेत्। भगया—भजनीयया(५) (सेवनीयया) वाचा। “भजसेवायां” (भ्वा०उ०) (१) “निष्ठा निष्पत्तिनाशान्ताः” इत्यमराच्छिष्टा-निष्पत्तिः सा सञ्जाता अस्येत्यर्थे (पा० २।२।२६) इतच्प्रत्ययः। पाके सम्पन्न इति फलितोऽर्थः। (३) तथाच महभाष्यमपि-“एतच्च भूतप्रवाचनं पत्न्याः-कुतश्चित्कारणादस- न्निधौ-अन्यथापि सवर्ण्या पाकेऽधिकृत्यवा कार्य्यम्। अपि वा प्रणवादि कुर्यात्। तथा- चोक्तम् (गृ० सं०)। “भूतप्रबाचने पत्नी यद्यसन्निहिता भवेत्। रजोयोगादिना तत्र कथङ्कुर्व्वन्ति याज्ञिकाः॥ महानसेऽन्नं या कुर्यात्सवर्णांन्तां प्रवाचयेत्। प्रणवाद्यपि वा कुर्यात् कात्यायनवचोयथा”॥ इति। अत्र सा यदि भूतमिति वक्तुं न शक्नोति तदान्यदूर्ध्वोंकारादि-सम्मतिप्रति- पादकं कुर्यादित्यर्थ इति रत्नाकरः। तथाच भूतप्रवाचनमिह सिद्धेऽन्ने पत्न्या भूतमिति- प्रश्नपूर्वकं वाच्यम्। (४) तथाचोक्तम्-“वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। आपञ्चैव हलन्तानां यथा वाचा निशा दिशे”ति। (५) चन्द्रकान्तस्तु-अभगया वाचेतिच्छित्वा पञ्चम्यर्थऋते योगे तृतीयामभि-