भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 8, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 8

श्रीगणेशायनमः । अथ गोभिलीयगृह्यसूत्राणि- १ अथातो गृह्याकर्माप्युपदेक्ष्यामः ॥ २ यज्ञोपवीतिनाऽऽचान्तोदकेन च कृत्यम् ॥ ३ उदगयने पूर्वपक्षे पुण्येऽहनि प्रागावर्त्तनादह्नः कालं विद्यात् ॥ ४ यथादेशञ्च ॥ ५ सर्वाय्येवान्वाहार्य्यवन्ति ॥ ६ अपवर्गेऽभिरूपभोजनं यथाशक्ति ॥ ७ ब्रह्मचारी वेदमधीत्यान्त्यां समिधमाधास्यन् ॥ ८ जायाया वा पाणिञ्जिघृक्षन् ॥ ९ अनुगुप्ता अप आहृत्य प्रागुदक्प्रवणं देशं समं वा परिसमुह्योपलिप्य मध्यतः प्राचीं लेखामुल्लिखेदोदीचींश्च संहतां पश्चात् । मध्ये प्राची- स्तिस्र उल्लिख्याभ्युक्षेत् ॥ १० लक्षणावृतैषा सर्वत्र ॥ ११ भूर्भुवःस्वरित्यभिमुखमग्निं प्रणयन्ति ॥ १२ प्रेते वा गृहपतौ परमेष्ठिकरणम् ॥ १३ तथा तिथिनक्षत्रपर्वसमवाये ॥ १४ दर्श वा पौर्णमासे वाऽग्निंलमाधानङ्कुर्वीत ॥ १५ वैश्यकुलाद्वाऽम्बरीषाद्वाऽग्निमाहृत्याभ्यादध्यात् ॥ १६ अपि वा बहुयाजिन एवागाराद्ब्राह्मणस्य वा राजन्यस्य वा वैश्यस्य वा ॥ १७ अपिवाऽन्यं मथित्वाऽभ्यादध्यात् ॥ १८ पुण्यस्त्वेवाऽनर्धुकोभवतीति ॥ १९ यथाकामयेत तथा कुर्यात् ॥ २० स यदेवान्त्यां समिधमादधाति जायाया वा पाणिञ्जिघृक्षन् जु- होति तमभिसंयच्छेत् ॥ २१ स एवास्य गृह्योऽग्निर्भवति ॥ २२ तेन चैवास्य प्रातराहुतिर्हुता भवति ॥ २३ सायमाहुत्युपक्रम एवात ऊर्ध्वं गृह्येऽग्नौ होमोविधीयते ॥ २४ पुरा प्रादुष्करणवेलायाः सायम्प्रातरनुगुप्ता अप आहरेत्परिचरणीयाः॥ २५ अपि वा सायम् ॥ २६ अपि वा कुम्भाद्वा मणिकाद्वा गृह्णीयात् ॥