भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 9, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 9

( २ ) २७ पुरास्तमयादग्निं प्रादुष्कृत्यास्तमिते सायमाहुतिञ्जुहुयात् ॥ २८ पुरोदयात्प्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतिञ्जुहुयात् ॥ इति प्रथमप्रपाठकस्य प्रथमा कण्डिका ॥ १ ॥ १ ॥ ✻ ॥ अथ द्वितीया कण्डिका— १ यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वाऽपि वा कुशरज्जुमेव ॥ २ दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय सव्येऽंसे प्रतिष्ठापयति, दक्षिणं कक्षमन्ववलम्बं भवत्येवं यज्ञोपवीती भवति ॥ ३ सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणेऽंसे प्रतिष्ठापयति, सव्यङ्क- क्षमन्ववलम्बं भवत्येवं प्राचीनावीती भवति ॥ ४ पितृयज्ञेष्वेव प्राचीनावीति भवति ॥ ५ उदगग्रेरुत्सृप्य प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचामेद्द्विः प्रमृजीत ॥ ६ पादावभ्युक्ष्य शिरोऽभ्युक्षेत् ॥ ७ इन्द्रियाण्यद्भिः संस्पृशेत् ॥ ८ अक्षिणी नासिके कर्णाविति ॥ ९ यद्यन्मीमांस्यं स्यात्तत्तदद्भिः संस्पृशेत् ॥ १० तत्रैतदाहुः ॥ ११ नोपस्पृशेद्ब्रजन् ॥ १२ न तिष्ठन् ॥ १३ न विलोकयन् ॥ १५ नाप्रणतः ॥ १६ नाङ्गुलीभिः ॥ १७ नातीर्थेन ॥ १८ न सशब्दम् ॥ १९ नानवेक्षितम् ॥ २० न वाह्यांसः ॥ २१ नान्तरीयैकदेशस्य कल्पयित्वोत्तरीयताम् ॥ २२ नोष्णाभिः ॥ २३ न सफेनाभिः ॥ २४ न च सोपानत्कः क्वचित् ॥ २५ कासकिकः ॥

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक) · पृष्ठ 9, कुल 332 में से · BharatKosha