गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 83, कुल 332 में से
संदर्भ में पढ़ें५२ नित्यहोमविधिः । [ प्रपाठके १ वैश्वदेवन्तु कुर्वीत पञ्चसूनापनुत्तये । वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः । सर्वे ते वृषला ज्ञेयाः प्राप्नवेदा अपि द्विजाः ।" इति शातातपीयान् । लौकिके पाकसाधने । वैदिके आवसथ्याग्नौ । एतच्च साग्निपरं, शेषं निरग्नेः । हुतोच्छिष्टे-अन्येन हुत्वा त्यक्ते । इदं त्वन- श्नताऽपि गृहस्थेनातिथ्याद्यनुरोधेन द्विष्पाकतापत्रे द्विरवश्यङ्कार्यम । “सायं प्रातर्वैश्वदेवः कर्त्तव्योबलिरेव च । अनश्नताऽपि सततमन्यथा किल्विषी भवेत् ॥” इतिच्छन्दोगपरिशिष्टादित्याचारचिन्तामणिः । अत्र जलादावपि होमे पर्यु- क्षणमाचरन्ति प्रामाणिकाः । युक्तञ्चैतत् । पर्युक्षणं हि होमाङ्गं न वह्नयङ्गम् । तथाच वह्निबाधे तदाधानाङ्गं परिसमूहनादिकं बाध्यतां, होमाङ्गं पर्युक्षणं कथं बाध्यतेत्याचारविवेकः । वाचस्पतिमिश्रास्तु जलक्षित्योः पर्युक्षणादिकमपि नास्त्येव । अग्नावेव तदाम्नानादित्याहुः ॥ ४ ॥ अथबलीन्हरेद्वाह्यतोऽन्तर्वा सुभूमिङ्कृत्वा ॥ ५ ॥ अथेति पूर्वप्रकृतार्थम् । अथ पूर्वप्रकृतेनैवान्नेन होमावशिष्टेन । “देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलि हरेद्”ति याज्ञवल्क्योक्तेः । अपचारे च शेषस्य, अन्य दप्युपादाय बलीहरेत् । पाकासम्भवे एकादश्यादौ तण्डुलैर्वा पयोदधिघृतफलोद- कादिभिर्वा कार्य इति धर्मसिन्धुः । बाह्यतो-बलिविधानाद्वहिर्वा प्रकृतत्वादग्न्य गारस्य । तथाचाग्न्यगारान्निष्क्रम्य तस्मिंस्तस्मिन्प्रदेशे तं तं बलिं हरेत् । यो- योयस्मिन्यस्मिन्प्रदेशे समाम्नातः । अन्त-र्मध्येवाऽग्न्यगारस्यैव । एकस्मिन्ने- व प्रदेशे यथासम्भवं बलीहरेन् । सुभूमिं कृत्वा । यथासम्भवं सम्मार्जनोपलेपना- दिभिः । तथाचापस्तम्बः-“बलीनान्तस्यतस्य देशस्य संस्कारोहस्तेनोपमृज्यावो- क्ष्य न्युप्य पश्चात् परिषेचनम् ।” इति। तस्यतस्येति वीप्सातः प्रत्येकमार्जनादि । अवोक्ष्य-सिक्त्वा । न्युप्य बलिन्दत्त्वा । परिषेचनं-बलेरुपरिसेकः(१) ॥ ५ ॥ सकृदपोनिनय चतुर्द्धा बलिं निदध्यात्सकृदन्ततः परिषिञ्चेत् ॥६॥ सकृदे-कवारमप(२) उदकं निनीय-भूमौ निषिच्य चतुर्द्धा चतुर्षु स्थानेषु बलिं-(३)जातावेकवचनम् बलिचतुष्टयम् । निदध्यात्-स्थापयेत् । अत्र समा- चारात्तदन्नं बलिचतुष्टयमात्रं सकृद्गृहीत्वा चतुर्षु स्थानेषु निदध्यात् । बलिमि- त्येकवचनावृत्तैर्वेति वचनाच्च । तथाच बलिचतुष्टयार्थं सकृदेव सेकः । अन्ततः- ( १ ) परिषेचनं बलीनामुपरि उदकेन वेष्टनमिति कल्पतरुः । ( २ ) अत्र “एकस्य सकृच्च” ( पा० ५ । ४ । १९ ) इति क्रियाऽभ्यावृत्तिगणने सुचः संयोगान्तलोपः । एकशब्दस्य सकृदादेशश्चेति बोध्यम् । ( ३ ) प्रकारार्थेऽत्र धाप्रत्ययः तद्भेदश्च स्थानभेदादित्येवं व्याख्यातम् ।