गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 85, कुल 332 में से
संदर्भ में पढ़ें| ५४ | नित्यहोमविधिः । | [ प्रपाठके १ |
|---|
र्म्मप्रदीपे कात्यायनः— “अमुष्मै नमः” इत्येवं बलिदानं विधीयते । बलिदानप्रसिद्धयर्थंनमस्कारः कृतोयतः ॥” इति । अत्र इतिः पदद्वयकीर्त्तनार्थो न तु परिच्छेदार्थः । एवमिति क्रमार्थम्८ अथापरान्वलीन्हरेदुदधानस्य, मध्यमस्य द्वारस्याब्दैवतः प्रथमोब- लिर्भवति, ओषधिवनस्पतिभ्यो द्वितीयः । आकाशाय तृतीयः॥९। अथेति पूर्वविद्ध्यनुकर्षणार्थम् । पूर्वेषामिवामीषामपि बलीनामुभयतः परिषेक इत्यर्थः । कर्म्मप्रदीपोऽप्याह “सर्वेषामप्युभयतः परिषेक” इति ॥ अ- परानन्यान् । एषां स्थानान्याह-उदधानस्य । उदकं धीयत अस्मिन्नित्यधिकरणे ल्युट् (पा० ३।३।११७ ) “उदकस्योदः संज्ञायाम्” ( पा० ६।३।५७ ) इति उदकस्योदादेशः । मणिकस्य कलशस्यवा, सामीप्येऽत्र षष्ठी । एवमग्रेऽपि । द्वारस्येत्यग्निशरणगृहस्येत्यर्थात् । अब्दैवतः आपोदेवता अस्येत्यर्थेऽण् ( पा० ४।२।२४ ) शिवभागवतवत्तद्धितार्थे समासः (पा० २।१।५१) प्रथमः प्रकृतानां बलीनामाद्यो बलिर्भवति । द्वितीयस्तु गृहमध्यमद्वारसमीपनिहित ओषधिवन- पतिभ्यः भवति । तृतीयश्चाकाशाय । स चान्तरीक्षे (तदुद्दिश्य) निधातव्यः । “आकाशायेत्यन्तरिक्षे” इति गौतमीयस्मरणात् । तथाच “ओम्द्भ्यो नमः ।” “ओमोषधिवनस्पतिभ्योनमः” । “ओमाकाशायनमः” इत्येवं मन्त्रप्रयोगः ॥ एवमग्रेऽपि ॥ ९ ॥ अथापरं बलिं हरेत् शयनं वाऽधिवर्च्चोवा(१), स यमाय बलिर्म्मन्मवे वा ॥ १० ॥ अथापरं वलिं हरेदित्युक्तार्थम् । बलिमित्येकवचनात्स्थानद्वयनिर्देशाच्च बलिद्वयमात्रं सकृद्गृहीत्वा द्विधा निदध्यादिति भट्टभाष्यम् । शयनं शय्येत्यन- र्थान्तरम् । अधिवर्च्चोमूत्रोच्चारप्रदेशः । वा शब्दाश्च(२) कारार्थाः । शयनञ्चा-
( १ ) अधिवर्चं वेति भट्टभाष्ये पाठः । स च “येसान्तास्तेऽदन्ता” इति न्यायमू- लकः । सान्तपाठस्तु सर्वत्र दृश्यते । सोऽपि विद्वाऽर्थे । तथाचामरः “तेजः पुरीषयोर्वर्चः” इति । “वर्चोनपुंसकं रूपे विष्ठायामपि तेजसि । पुंसि चन्द्रस्य तनये” इतिमेदिनीच । पा- णिनिरपि “ब्रह्महस्तिभ्यां वर्चसः” (पा०५।४।७८) इति वर्चस्तेजसि पुरीषे च प्रयोजयति । ब्रह्मवर्चसं हस्तिवर्चसमिति । मूत्रार्थे तु न क्वापि प्रयुक्तोऽन्यत्र । तथापिअधिश- ब्देन बहुव्रीहिणासो ऽर्थोऽङ्गीतोभट्टभाष्यादौ । अत्र द्वितीया प्रतिशब्दाध्याहारार्थेत्यपि- भट्टभाष्यम् । ( २ ) अन्ये तु वाशब्दान्विकल्पार्थान्नाडुः। एक एवार्यं बलिः शयनं वा प्रति देयोऽधि वर्च वा । स च कामदेवत्योभवति मन्युदेवत्यो वा । अपरे तु विनिवेशविकल्पमाहुः। शय नं प्रति कामाय रात्रौ अधिवर्चं प्रत्यहनि । तदेतदुभयमपि युक्तम् । कुतः ? “अथ तद्धि