गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 86, कुल 332 में से
संदर्भ में पढ़ेंधिवर्चश्च प्रति बलिं हरेत् । द्वतश्च स बलिः कामाय भवति मन्यवे च । इति यथासङ्ख्यम् । तदयमर्थः । शयनं(१)प्रति यो बलिर्निधीयते स मन्युदेवताभ्यां भवतीति ॥ अत्र कामो मन्मथः । मन्युः क्रोधः ॥ १० ॥ अथ संस्तूपं स रक्षोजनेभ्यः ॥ ११ ॥ अथेति विशिष्टमानन्तर्यं द्योतयति । मन्युबलिदानानन्तरमिन्द्राय वासु- कये ब्रह्मणे इति बलित्रयं दत्त्वाऽथानन्तरमित्यर्थः । तथा चायमाचार्यो वास्तु- बलौ दशदिक्षु इन्द्रादिवलिदशकमभिधायासूत्रयन् "प्राच्यूर्ध्वावाचीभ्योऽहर- हर्न्नित्यप्रयोग" इति । प्राच्यूर्ध्वाधोदिक्षु खल्विन्द्र-ब्रह्म-वासुकिदेवतया बलयो वास्तुकर्म्मणि समाम्नाताः । तेषामहरहर्नित्यं प्रयोगोभवतीति सूत्रयन्नाचार्यः स्पष्टमिदमाह यदहरहरिन्द्र ब्रह्मवासुकि बलयोभवन्तीति । परिशिष्टप्रकाशेऽप्यु- क्तम् "गृह्यान्तरानुसारेण मन्युबलेरनन्तरमिन्द्र ब्रह्म वासुकिदेवतया बलयोदेया स्ततोरक्षः पितृबली" इति । "चतुर्दश नित्याः" इति च कर्म्मप्रदीपः । संस्तूपः सम्मार्जनरेणुपुञ्जादिप्रक्षेपस्थानम् । तंम्प्रति रक्षोजनेभ्यः बलिं हरेदित्यर्थः ॥११॥ अथैतद्वलिशेषमद्भिरभ्यासिच्यापसलवि दक्षिणा निन- येत्तत्पितृभ्योभवति ॥ १२ ॥ अथ शब्दः प्राचीनावीतित्व-सव्यजानुपात-दक्षिणामुखत्वानि स्मारयति । एतद्वलिशेषम् एतद्वलिदानावशिष्टमन्नम् । अद्भिरभ्यासिच्याऽऽप्लावय्य (२) अ- पसलवि अपसव्येन पितृतीर्थेन चेत्यर्थः । तथाचगृह्यान्तरम् "प्रदेशिन्यङ्गुष्ठयोर- न्तराऽपसलवि अपसव्यं वा, तेन पितृभ्यो ददाती"-ति । दक्षिणा दाक्षिणात्यां मद्दूरे दिशि । अत्र "दक्षिणादाच्" (पा०५।३।३६ ) इत्युक्तार्थे आचप्रत्ययेऽ- व्ययत्वम् । (पा० १।१।३८) । निनयेत् हरेत् । तदिदं पितृभ्यो भवति । तथाच पित्रर्थत्वान्नात्र नमस्कारप्रयोगः किन्तु "पितृभ्यः स्वधे"ति स्वधाकारेण बलि- र्दातव्यः । तदाह कात्यायनः— स्वाहाकारनमस्कारवषट्कारा दिवौकसाम् । स्वधाकारः पितॄणाञ्च हन्तकारो नृणाम्मतः ॥ स्वधाकारेण निनयेत्पित्र्यं बलिमत्तः सदा । तमप्येके नमस्कारैः कुर्वते नेति गौतमः ॥" न्यास्" इत्यारभ्य बलिद्वयस्यापि सायं प्रातर्विधानात् "सर्वेषान्दक्षिणतः पितृभ्य इतिचतु- र्दश नित्या" इति सङ्ख्यावचनस्यार्थपरत्वात् । (१) अत्र योग्यतावशात्तत्सन्निहितं स्थानमभिधित्सितमाचार्यस्य । न हि सत्यं बलि निधीयते । नाऽपि वर्चसि । तथाचोद्दिश्येत्यध्याहारेणात्र द्वितीयाबोद्ध्या । (२) तदिदमाप्लावनं रक्षोबलयवशिष्टत्वादन्नस्य संस्कारार्थम्भवति । तच्च सकृदेव "त्रिर्देवेभ्यो द्विर्मनुष्येभ्यः सकृत्पितृभ्यः" ( १।७।६ ) इति प्रक्षालनप्रकरणेऽभिधानात्।