भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 87, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 87

इति। एके-वाजसनेयिनः। तथाच तेषां स्वधानम(१) इत्येवं पित्र्यबलि- दानम्। नेति गौतम इतिच्छन्दोगानभिप्रेत्य। अथास्य निधानक्रम एकत्र- चेदित्याद्युक्तवचनेनैकत्र चेत्सर्वे बलयो निधीयन्ते तर्हि यथा निधातव्यमित्यु- पक्रम्य (१३-१४) कर्म्मप्रदीपे (१४-१) कात्यायनः॥ “अथ तद्विन्यासो वृद्धिपिण्डानिवोत्तरोत्तरांश्चतुरोबलीन्रिदध्यात्-”पृथिव्यै,” “वायवे” “विश्वेभ्योदेवेभ्यः” “प्रजापतये” इति। सव्यत एतेषामे- कैकस्यैकैकम् “अद्भ्यः” “ओषधिवनस्पतिभ्यः” “आकाशाय” “कामाय” इ- ति। एतेषामपि “मन्यवे” “इन्द्राय” “ब्रह्मणे” “वासुकये” इति। एतेषामपि “रक्षोजनेभ्यः” इति। “सर्वेषान्दक्षिणतः पितृभ्यः” इति। चतुर्दश नित्या। आसस्यप्रभृतयः काम्याः। सर्वेषामुभयतः परिषेकः। पिण्डवच्च पश्चिमा प्रतिपत्तिर”ति पिण्डवच्चेति। यथा पिण्डप्रतिपत्तिर्विप्रगवादिषु तथा बली- नामपि चरमा प्रतिपत्तिरित्यर्थः॥ आधानदिने च वैश्वदेवबलिकर्म्मणी सायमाहुत्यनन्तरं रात्रावेव कर्त्तव्ये। तदाह-कर्म्मप्रदीपः “ऊर्ध्वम्पाक्याहुतेः कुर्यात्सायं होमादनन्तरम्। वैश्वदेवन्तु पाकान्ते बलिकर्म्मसमन्वितम्॥ ब्राह्मणान्भोजयेत्तत्रादभिरूपान्स्वशक्तितः। यजमानस्ततोऽश्नीयादिति कात्यायनोऽब्रवीत्॥” इति। सोऽयं भूतयज्ञः “बलिभौतः” इति वचनात्। एतदनन्तरं वामदे- व्यगानं कर्त्तव्यं “बल्यन्ते वैश्वदेविकम्” इति वचनात्। स खल्वयं ब्रह्मय- ज्ञस्य पूर्वोक्तस्तृतीयः कालः। (२)अथेदानीम्मनुष्ययज्ञः। तदर्थमतिथिम्भो- जयेदिति मुख्यः पक्षस्तमाह कात्यायनः-“नृयज्ञोऽतिथिभोजनम्(२)” इति। (१) तथाच वाजसनेयकल्पे शूद्राधिकारस्तत्र वैदिकमन्त्रसम्बन्धाभावात्। “शूद्रा वाजसनेयिनः” इत्यतएव प्रसिद्धेश्चेति आचारविवेके शूलपाणिमहामहोपाध्यायाः प्राहुः। (२) पितृयज्ञस्तु तर्पणरूपः कात्यायनोक्तः स्नानानन्तरं विहितः। यतः प्राग्गायत्री जपरूपो ब्रह्मयज्ञः। स एष स्नानसूत्रमुपक्रम्याग्रे व्यक्तः। यश्च श्राद्धरूपोबलि रूपोवा “श्राद्धं वा पितृयज्ञः स्यात्पितृभ्योबलिरेवापि वे”ति कात्यायनेनोक्तः। स साग्नेर्वैश्वदेवान्तएव निय- मतः। तथाच लौगाक्षिः “पक्षान्तद्धोमं निर्वर्त्त्य वैश्वदेवं च साग्निकः। पिण्डयज्ञन्ततः कुर्या- त्ततोऽन्वाहार्यकं बुधः” इति। पक्षान्तमन्वाधानम्। अन्वाहार्यकन्दर्शश्राद्धम्। देवलोऽ- प्याह “अकृते वैश्वदेवे तु स्थालीपाकः प्रकीर्त्तितः। अन्यत्र पिण्डयज्ञात्तु सोऽपराह्ने विधी यते” इति। स्थालीपाकशब्देनात्र स्थालीपाकसाध्यानि कर्म्माण्युच्यन्ते। एतानि पक्षा- न्तादीनि कर्माणि वैश्वदेवात्पूर्वमेव कर्त्तव्यानि। पिण्डपितृयज्ञस्यापि स्थालीपाकसाध्य- त्वेन तस्यापि पूर्व्वत्र कर्त्तव्यतायाम्प्राप्तायामपवादः। अन्यत्रेति। पिण्डपितृयज्ञादन्यत्रेत्य- र्थः। दर्शश्राद्धस्य पिण्डपितृयज्ञानन्तर्य्यमाह मनुः “पिण्डयज्ञन्तु निर्वर्त्त्य विप्रांश्चन्द्रक्षयेऽ