गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 89, कुल 332 में से
संदर्भ में पढ़ें“कृत्वैतद्वलिकर्म्मैवमतिथिम्पूर्वमाशयेत् । भिक्षाञ्च भिक्षवे दद्याद्यथावद्ब्रह्मचारिणे ॥” इति स्मरति । अतिथावनागच्छति ब्राह्मणायान्यस्मै अपि भोजनन्दद्यात् । भोजनासम्भवे हन्तकार(१)-पुष्कल-भिक्षो-दपात्राणाँयथासम्भवमेकतमन्द- द्यात् । यथाह— “भिक्षां वा पुष्कलं वापि हन्तकारमथापि वा । असम्भवे सदा दद्यादुदपात्रमथापि वा ॥” इति ॥ तन्मानमाह— ग्रासमात्री भवेद्भिक्षा पुष्कलन्तच्चतुर्गुणम् । पुष्कलानि च चत्वारि हन्तकारं विदुर्बुधाः ॥” इति ॥ तत्प्रकारमाह— “इदमन्नं मनुष्येभ्योहन्तेत्युक्त्वा समुत्सृजेत् ॥” इति ॥ तथाचाभ्यागताय, यतिने, ब्रह्मचारिणे, वा, अन्यस्मै ब्राह्मणाय वा प्राङ्मुखोपविष्टाय भोजनपर्याप्तमन्नन्तदभावे षोडशग्रासरूपं हन्तकारं वा, चतुर्ग्रासरूपमन्नं वा ग्रासमात्ररूपां भिक्षां वा, फलमूलादिकं वा यथाविभव मुदङ्मुखो निवीती कुशत्रयतिलजलैः इदमन्नं ॐ मनुष्याय हन्त इतिप्राजाप- त्यतीर्थेन दद्यात् । यत्याद्यभावेऽपि इदमन्नम् “ॐ सनकादिमनुष्येभ्यो हन्त” इत्युक्तविधिना दद्यात् । अथ गोग्रासः । तत्र सान्नग्रासमुष्टिं परस्य गवे दद्यात् । तामुद्दिश्य वोत्सृजेत् । तत्र मन्त्रः “ॐ सौरभेय्यः सर्वहिताः पवित्राःपुण्यराशयः । प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः” इति ॥ ( इतिपञ्चमहायज्ञविधिः ) अथेदानीमुक्तस्यैव विशेषोऽभिधीयते— आसीन एवाग्नौ जुहुयात् ॥ १३ ॥ आसीन उपविष्ट एव नोर्ध्वो न वा प्रह्वः ॥ १३ ॥
( २ ) नित्यकृत्यार्णवे तु—मनुष्ययज्ञे चात्राऽतिथित्वमविवक्षितमतिथेरनित्यत्वान्म- नुष्ययज्ञस्य नित्यत्वात्तेनातिथ्यभावेऽन्येनापि ब्राह्मणेन मनुष्ययज्ञसिद्धिः । अत एव अहरहर्ब्राह्मणेभ्योऽन्नं दद्यादामूलफलशाकेभ्योऽथैनं मनुष्ययज्ञं समाप्नोति ।” इति ब्रा- ह्मणमात्रं विवक्षति । एवञ्च सनकाद्यन्नदानरूप एव मनुष्ययज्ञ इति भ्रमो हेयः । सति- सम्भवेऽतिथये तदभावे ब्राह्मणाय कस्मै चिद्देयं, सनकादिभ्योऽपीति । अयमपि वक्ष्यति “अग्रं ब्राह्मणाय दत्त्वा भुञ्जीते”( १।४।२६ ) ति ॥ अत्रातिथिपूजाप्रयोगोनित्यकृत्यार्णवे प्रयोगपद्धतावन्यत्र च द्रष्टव्यः ॥ ( १ ) एवञ्चायम्मनुष्ययज्ञोऽपि त्रिविधः । तत्र मुख्योऽतिथिभोजनम् । तदसम्पत्तौ हन्तकारादिदानम् । तदसम्पत्तावुदपात्रदानमपीति ॥