गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 92, कुल 332 में से
संदर्भ में पढ़ें४ कण्डिका ] गोभिलगृह्यसूत्रे – ६१ त्यर्थः । तथाच मनुः— “सायन्त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् । वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ॥” इति । तदनेन रात्रावपि वैश्वदेवबलिकर्म्मणोरविशेषेण कर्त्तव्यत्वन्दर्शि- तम्(१) । प्रातरहनि पुमान् समन्त्रमित्यर्थः । बलिं हरेत् ॥ अत्र स्मृतौ—सिद्ध- स्यान्नस्येति पक्षप्राप्तमनूद्यते न तु विधित्सितम् । सायं बलिं हरेदित्येव । तच्चा- न्नाभावे फलादिनाऽपि । तथाच चतुर्विंशतिमते— “अलाभे येन केनापि फलशाकोदकादिभिः । पयोदधिघृतैर्वापि वैश्वदेवं स्रुवेण तु ॥ हस्तेनान्नादिना कुर्याद्द्विरञ्जलिना जले ॥” इति । तत्रापि यददनीयन्तेनैव होमस्तथाच परिशिष्टे— “शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । सङ्कल्पयेद्यदाहारं तेनैव जुहुयाद्धविः ॥” इति । इतिकरणं बलिप्रकरणसमाप्तिख्यापकम् ॥ १९ ॥ तदिदं बलिहरणमहरहर्यत्पच्यते तेनैवान्नेन कर्त्तव्यम् । न खल्वेष निय- मोवैश्वदेवेनैवान्नेन विधेयमित्याह— सर्वस्य त्वेवान्नस्यैतान्बलीन्हरेत् पित्र्यस्य वा स्वस्त्ययनस्य वाऽर्थार्थस्य वा ॥ २० ॥ सर्वस्येत्यनेन येन केनाऽपि बलीन्हरेत् । पित्र्यस्य पितृकर्म्मार्थं शृतस्य अमावश्यादावन्वाहार्याद्यर्थस्येत्यर्थः । अत्र तस्येदमित्यर्थे “पितुर्यच्च” ( पा० ४।३।७९ ) इति यति “रीडृतः” ( पा० ७।४।२७ ) इति रीडो “यस्येतिच” युज्यते वैश्वदेविकपाकान्नान्निषेधश्च भोजनप्रकरणीयो। वैश्वदेवविमुखस्वामिकान्नविषयो “नात्मार्थम्पाचयेदन्नमि”ति निषिद्धपाकान्नपरोवेति ॥ ( १ ) अत्र च्छन्दोगाह्निके श्रीदत्तोपाध्याया आहुः “इदं पत्नीकर्तृकं बलिहरणं यज- मानतत्पुत्रादीनामसन्निधान इति केचित् । अन्ते तु—“स्वयन्त्वेवैतान्बलीनि”त्यारभ्य- “स्त्री हि सायं प्रातः पुमानि”ति गोभिलगृह्यानुसाराद्गृहमेधिव्रतपक्षे सायं पत्नीकर्तृकमेव बलिहरणं तत्परञ्च। मानववचनमिति वर्णयन्तीति । वसिष्ठः “वैश्वदेवं सायम्प्रातर्गृह्येऽग्नौ जुहुयात्” इत्यादि। वैश्वदेवं विश्वदेवदेवताकम्। सायमिति। पुनः पाकान्ने। “पुनः पाक- मुपादाय सायमप्यवनीपते । वैश्वदेवनिमित्तन्तु पत्न्या सार्द्धं बलिं हरेत ॥ तत्रापि श्वपचा- दिभ्यस्तथैवान्नापवर्जनम् ।” इति विष्णुपुराणवचनात् । गृह्ये—आवसथ्याग्नौ इति तु साग्निविषयम् । इत्याचारचिन्तामणिः । पत्न्या सार्द्धमिति पाककरणेन सहावस्थानेन च साहित्यम् ।