गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 93, कुल 332 में से
संदर्भ में पढ़ें६२ बलिहरणविधिः । [१ प्रपाठके (पा० ६।४।१४८) इतीकारलोपः॥ वा-अथवा स्वस्त्ययनस्य(१) तदर्थं पक्वस्य । अर्थार्थस्य स्वसमीहितसिद्धयर्थस्य। (२)वाशब्दोऽयं कैमुतिकन्यायम- नुस्मारयति। पूर्वतनावस्थायान्तेन यथाकथञ्चित्पक्वस्येत्यर्थ आयाति। अत्र तु शब्दोऽस्यैव बलिहरणस्य कालविशेषद्योतनार्थः । पूर्वन्तु तावद्वलिहरणंकुर्या- त्पश्चाद्ब्राह्मणं भोजयेदिति चन्द्रकान्तभाष्यम् ॥ २० ॥ तदिदं बलिहरणम् । यज्ञादेव निवर्त्तते ॥ २१ ॥ यज्ञो ज्योतिष्टोमादिस्तस्माद्धेतोर्निवर्त्तते । यद्वा सप्तम्यर्थे व्यत्ययेन (पा० ३।१।८५) पञ्चमी । यज्ञे निवर्त्तते । बलिहरणञ्च होमादीनामप्युपलक्षणम् । “तस्माद्दीक्षितो न ददाति, न पचति, न जुहोति” इति च ब्राह्मणम्। न ददा- तीत्यादि दीक्षणीयेष्टेरन्यत्र बोध्यम् । एवशब्दो बलिहोमादेरावश्यकत्वप्रद- र्शनार्थः । नान्यथा आपद्यपि निवर्त्तते इति । तथा च स्मरन्ति— “आपद्यपि हि कष्टायां पञ्चयज्ञान्न हापयेत् । स्वर्गापवर्गयोः प्राप्तिं महायज्ञैः प्रचक्षते ॥” इति । सोऽयं सामान्यविधिरपवादविधिनानेनोपरुध्यते । न पुनरेतावता- ऽशौचेऽपि कर्त्तव्यतैवामीषामिति भ्रमितव्यम्— “सन्ध्यां पञ्चमहायज्ञांन्नैत्यकं स्मृतिकर्म्म च । तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया ॥” इति-स्मरणात् ॥ “पञ्चयज्ञविधानञ्च न कुर्यान्मृत्युजन्मनोः” इतिचैव- मादिस्मरणात् ॥ २१ ॥ यद्येकस्मिन्काले व्रीहियवौ प्रक्रियेयातामन्यतरस्य कृत्वा कृतंमन्येत २२ यदि-एकस्मिन् भोजनकाले दिवैव वा रात्रावेव वा-इत्यर्थः । व्रीहियवौ उभौ। नानाजातीयात्रोपलक्षणमेतदित्याचारचिन्तामणिः । प्रक्रियेयाताम् । प्रकर्षेण भक्तकरम्भपायसशष्कुल्यादिभेदेन क्रियेयाताम् कृतौ भवेतान्तर्हि अन्यतरस्य एकतरस्य व्रीहे र्यवस्य वा विकारैः कृत्वा बलिहरणं कृतं सम्पादितं मन्येत जानीयात् । न पुनरन्यस्यापि कर्त्तव्यमित्यर्थः ॥ २२ ॥ यद्येकस्मिन्काले पुनः पुनरन्नं पच्येत सकृदेवैतद्बलितन्त्रं कुर्वीत २३ ( १ ) स्वस्तीत्यभिप्रेतार्थं सिद्धिमचष्टे-तस्यायनं प्रापकं यत्कर्म ब्राह्मणभोजना- दिरून्तत्स्वस्त्ययनं, स्वस्ति ईयते प्राप्यतेऽनेनेति करणे ल्युट्। “स्नेहवद्मांसमन्नं ब्राह्म- णान्भोजयित्वा स्वस्ति हैषाम्भवती”त्येव मादिवचनात् । ( २ ) चन्द्रकान्तभाष्ये तु—अर्थोधनम् अर्थः प्रयोजनं यस्य पुरुषस्य सोऽयमर्थार्थः । यस्मात्पुरुषार्थेनाशास्यते तदर्थम्पक्वस्येत्यर्थ इत्युक्तम् ॥ अवयवलक्षणा चात्र षष्ठी पूर्ववत् ।